Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - त्र्यवसाना पञ्चपदा जगती सूक्तम् - दीर्घायु सूक्त

    मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात्संक॑सुकाच्चर॒। रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु पृ॑थि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च। अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ॥

    स्वर सहित पद पाठ

    मा । त्वा॒ । क्र॒व्य॒ऽअत् । अ॒भि । मं॒स्त॒ । आ॒रात् । सम्ऽक॑सुकात् । च॒र॒ । रक्ष॑तु । त्वा॒ । द्यौ: । रक्ष॑तु । त्वा । द्यौ: । रक्ष॑तु । पृ॒थि॒वी । सूर्य॑: । च॒ । त्वा॒ । रक्ष॑ताम् । च॒न्द्रमा॑: । च॒ । अ॒न्तरि॑क्षम् । र॒क्ष॒तु॒ । दे॒व॒ऽहे॒त्या: ॥१.१२॥


    स्वर रहित मन्त्र

    मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर। रक्षतु त्वा द्यौ रक्षतु पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च। अन्तरिक्षं रक्षतु देवहेत्याः ॥

    स्वर रहित पद पाठ

    मा । त्वा । क्रव्यऽअत् । अभि । मंस्त । आरात् । सम्ऽकसुकात् । चर । रक्षतु । त्वा । द्यौ: । रक्षतु । त्वा । द्यौ: । रक्षतु । पृथिवी । सूर्य: । च । त्वा । रक्षताम् । चन्द्रमा: । च । अन्तरिक्षम् । रक्षतु । देवऽहेत्या: ॥१.१२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 12

    टिप्पणीः - १२−(त्वा) त्वाम् (क्रव्यात्) अ० २।२५।५। मांसभक्षकः पशुरोगादिः (अभि) सर्वतः (मा मंस्त) मन ज्ञाने वधे च-लुङ्। मा वधीत्। मन्युर्मन्यतेर्दीप्तिकर्मणः। क्रोधकर्मणो वधकर्मणो वा-निरु० १०।२९। (आरात्) दूरम् (संकसुकात्) अ० ५।३१।९। कस नाशने-ऊक, ह्रस्वः। नाशकात्। विघ्नात् (चर) गच्छ (द्यौः) प्रकाशमानः परमेश्वरः (अन्तरिक्षम्) मध्यलोकः (देवहेत्याः) ऊतियूतिजूति०। पा० ३।३।९७। हन गतौ वधे च-क्तिन्। इन्द्रियाणां हननात्। अन्यत् सुगमम् ॥

    इस भाष्य को एडिट करें
    Top