अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 6
उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृणोमि। आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥
स्वर सहित पद पाठउ॒त्ऽयान॑म् । ते॒ । पु॒रु॒ष॒ । न । अ॒व॒ऽयान॑म् । जी॒वातु॑म् । ते॒ । दक्ष॑ऽतातिम् । कृ॒णा॒मि॒ । आ । हि । रोह॑ । इ॒मम् । अ॒मृत॑म् । सु॒ऽखम् । रथ॑म् । अथ॑ । जिर्वि॑: । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥१.६॥
स्वर रहित मन्त्र
उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृणोमि। आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥
स्वर रहित पद पाठउत्ऽयानम् । ते । पुरुष । न । अवऽयानम् । जीवातुम् । ते । दक्षऽतातिम् । कृणामि । आ । हि । रोह । इमम् । अमृतम् । सुऽखम् । रथम् । अथ । जिर्वि: । विदथम् । आ । वदासि ॥१.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(उद्यानम्) ऊर्ध्वगमनम् (ते) तव (पुरुषः) (न) निषेधे (अवयानम्) अधः पतनम् (जीवातुम्) अ० ६।५।२। जीविकम्-निरु० ११।११। (ते) तव (दक्षतातिम्) सर्वदेवात्तातिल्। पा० ४।४।१४२। बाहुलकात्, दक्षादपि तातिल् स्वार्थे। दक्षं बलं योग्यताम् (कृणोमि) करोमि (आ रोह) अधितिष्ठ (हि) अवश्यम् (इमम्) पूर्वोक्तम् (अमृतम्) सनातनम् (सुखम्) सुखपदम् (रथम्) यानम्। उपदेशमित्यर्थः (अथ) अनन्तरम् (जिर्विः) जॄशॄस्तॄजागृभ्यः क्विन्। उ० ४।५४। जॄ स्तुतौ-क्विन्, छान्दसो ह्रस्वः। जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। जीर्विः। स्तुत्यः (विदथम्) अ० १।१३।४। विद विचारणे-अथ, ङित्। विचारसमाजम्। यज्ञम्। निघ० ३।१७। (आ वदासि) लेटि रूपम्। व्यक्तं भाषय ॥
इस भाष्य को एडिट करें