अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 19
उत्त्वा॑ मृ॒त्योर॑पीपरं॒ सं ध॑मन्तु वयो॒धसः॑। मा त्वा॑ व्यस्तके॒श्यो॒ मा त्वा॑घ॒रुदो॑ रुदन् ॥
स्वर सहित पद पाठउत् । त्वा॒ । मृ॒त्यो: । अ॒पी॒प॒र॒म् । सम् । ध॒म॒न्तु॒ । व॒य॒:ऽधस॑: । मा । त्वा॒ । व्य॒स्त॒ऽके॒श्य᳡: । मा । त्वा॒ । अ॒घ॒ऽरुद॑: । रु॒द॒न् ॥१.१९॥
स्वर रहित मन्त्र
उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः। मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥
स्वर रहित पद पाठउत् । त्वा । मृत्यो: । अपीपरम् । सम् । धमन्तु । वय:ऽधस: । मा । त्वा । व्यस्तऽकेश्य: । मा । त्वा । अघऽरुद: । रुदन् ॥१.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(उत्) उत्कर्षेण (त्वा) त्वाम् (मृत्योः) दरिद्रतादिक्लेशात् (अपीपरम्) पॄ पालनपूरणयोः-लुङ्। रक्षितवानस्मि (सम्) सम्यक् (धमन्तु) गच्छन्तु-निघ० २।१४। प्राप्नुवन्तु (वयोधसः) जीवनधारकाः पदार्थाः (मा) निषेधे (त्वा) (व्यस्तकेश्यः) वि+असु क्षेपणे-क्त+काशृ दीप्तौ-घञ्। आकारस्य एकारः। स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्। पा० ४।१।५४। इति ङीप्। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वा-निरु० १२।२५। व्यस्तः केशः प्रकाशो याभिस्ताः। नाशितप्रकाशाः (त्वा) (अघरुदः) रुदेः क्विप्। अघस्य रुदः। पापपीडाः (मा रुदन्) रुदिर् अश्रुविमोचने-लुङ्। अन्तर्गतण्यर्थः। मा रूरुदन्। मा रोदयन्तु ॥
इस भाष्य को एडिट करें