अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 16
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिः प्र॑म॒युः क॒था स्याः॑। उत्त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
स्वर सहित पद पाठमा । त्वा॒ । ज॒म्भ: । सम्ऽह॑नु: । मा । तम॑: । वि॒द॒त् । मा । जि॒ह्वा । आ । ब॒र्हि: । प्र॒ऽम॒यु: । क॒था । स्या॒: । उत् । त्वा॒ । आ॒दि॒त्या: । वस॑व: । भ॒र॒न्तु॒ । उत् । इ॒न्द्रा॒ग्नी इति॑ । स्व॒स्तये॑ ॥१.१६॥
स्वर रहित मन्त्र
मा त्वा जम्भः संहनुर्मा तमो विदन्मा जिह्वा बर्हिः प्रमयुः कथा स्याः। उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥
स्वर रहित पद पाठमा । त्वा । जम्भ: । सम्ऽहनु: । मा । तम: । विदत् । मा । जिह्वा । आ । बर्हि: । प्रऽमयु: । कथा । स्या: । उत् । त्वा । आदित्या: । वसव: । भरन्तु । उत् । इन्द्राग्नी इति । स्वस्तये ॥१.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(मा) निषेधे (त्वा) त्वाम् (जम्भः) जभि नाशने-अच्। नाशकः (संहनुः) शॄस्वृस्निहित्रप्यसिवसिहनि०। उ० १।१०। हन हिंसागत्योः-उ। विघ्नः। मृत्युः (मा) (तमः) अन्धकारः (विदत्) विद्लृ लाभे-लुङ्। लभताम् (मा) (जिह्वा) रसना (आ) समुच्चये। (बर्हिः) बृंहेर्नलोपश्च। उ० २।१०९। बर्ह हिंसायाम्-इसि। हिंसास्वभावा (प्रमयुः) भृमृशीङ्०। उ० १।७। डुमिञ् प्रक्षेपणे-उ। प्रक्षिप्तः (कथा) केन प्रकारेण (स्याः) त्वं भवेः (उत्) ऊर्ध्वम् (त्वा) (आदित्याः) अ० १।९।१। प्रकाशमाना विद्वांसः (वसवः) श्रेष्ठपदार्थाः (भरन्तु) धारयन्तु (उत्) (इन्द्राग्नी) मेघपावकौ (स्वस्तये) सुसत्तायै ॥
इस भाष्य को एडिट करें