अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 20
आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः। सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ॥
स्वर सहित पद पाठआ । अ॒हा॒र्ष॒म् । अवि॑दम् । त्वा॒ । पुन॑: । आ । अ॒गा॒: । पुन॑:ऽनव: । सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षु॑: । सर्व॑म् । आयु॑: । च॒ । ते॒ । अ॒वि॒द॒म् ॥१.२०॥
स्वर रहित मन्त्र
आहार्षमविदं त्वा पुनरागाः पुनर्णवः। सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥
स्वर रहित पद पाठआ । अहार्षम् । अविदम् । त्वा । पुन: । आ । अगा: । पुन:ऽनव: । सर्वऽअङ्ग । सर्वम् । ते । चक्षु: । सर्वम् । आयु: । च । ते । अविदम् ॥१.२०॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(आ) समन्तात् (अहार्षम्) स्वीकृतवानस्मि (अविदम्) लब्धवानस्मि। (त्वा) ब्रह्मचारिणम् (पुनः) विद्याप्राप्त्यनन्तरम् (आ अगाः) आगतवानसि (पुनर्णवः) विद्यया नवीनजीवनः सम् (सर्वाङ्ग) प्राप्तविद्यासम्पूर्णाङ्ग (सर्वम्) सम्पूर्णम् (ते) तुभ्यम् (चक्षुः) दर्शनसामर्थ्यम् (आयुः) जीवनम्। अन्यद् गतम् ॥
इस भाष्य को एडिट करें