अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
उत्क्रा॒मातः॑ पुरुष॒ माव॑ पत्था मृ॒त्योः पड्वी॑षमवमु॒ञ्चमा॑नः। मा च्छि॑त्था अ॒स्माल्लो॒काद॒ग्नेः सूर्य॑स्य सं॒दृशः॑ ॥
स्वर सहित पद पाठउत् । क्रा॒म॒ । अत॑: । पु॒रु॒ष॒ । मा । अव॑ । प॒त्था॒: । मृ॒त्यो: । पड्वी॑शम् । अ॒व॒ऽमु॒ञ्चमा॑न: । मा । छि॒त्था॒: । अ॒स्मात् । लो॒कात् । अ॒ग्ने: । सूर्य॑स्य । स॒म्ऽदृश॑: ॥१.४॥
स्वर रहित मन्त्र
उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः। मा च्छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥
स्वर रहित पद पाठउत् । क्राम । अत: । पुरुष । मा । अव । पत्था: । मृत्यो: । पड्वीशम् । अवऽमुञ्चमान: । मा । छित्था: । अस्मात् । लोकात् । अग्ने: । सूर्यस्य । सम्ऽदृश: ॥१.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(उत्) ऊर्ध्वम् (क्राम) क्रमु पादविक्षेपे। पादं विक्षिप (अतः) वर्तमानाया दशायाः (पुरुष) मनुष्य (मा अव पत्थाः) पद गतौ-लुङ्। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१०। इट्प्रतिषेधः। झलो झलि। पा० ८।२।२६। सिचो लोपः। अवपतनं मा कार्षीः (मृत्योः) अज्ञाननिर्धनतादिदुःखस्य (पड्वीशम्) अ० ६।९६।२। पाशप्रवेशम् (अवमुञ्चमानः) विमोचयन् (माच्छित्थाः) छिदेर्लुङि पूर्ववद् इट्प्रतिषेधः। छिन्नो मा भूः (अस्मात्) (लोकात्) अवस्थायाः (अग्नेः) शरीरात्मबलादित्यर्थः (सूर्यस्य) आदित्यस्य (संदृशः) दृशेः क्विप्। संदर्शनात् ॥
इस भाष्य को एडिट करें