Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    उदे॑नं॒ भगो॑ अग्रभी॒दुदे॑नं॒ सोमो॑ अंशु॒मान्। उदे॑नं म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥

    स्वर सहित पद पाठ

    उत् । ए॒न॒म् । भग॑: । अ॒ग्र॒भी॒त् । उत् । ए॒न॒म् ।सोम॑: । अं॒शु॒ऽमान् । उत् । ए॒न॒म् । म॒रुत॑: । दे॒वा: । उत् । इ॒न्द्रा॒ग्नी इति॑ । स्व॒स्तये॑ ॥१.२॥


    स्वर रहित मन्त्र

    उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान्। उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥

    स्वर रहित पद पाठ

    उत् । एनम् । भग: । अग्रभीत् । उत् । एनम् ।सोम: । अंशुऽमान् । उत् । एनम् । मरुत: । देवा: । उत् । इन्द्राग्नी इति । स्वस्तये ॥१.२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 2

    टिप्पणीः - २−(उत्) ऊर्ध्वम् (एनम्) पुरुषम् (भगः) सेवनीयः सूर्यः (अग्रभीत्) अग्रहीत्। धृतवान् (उत्) (एनम्) (सोमः) चन्द्रः (अंशुमान्) प्रशस्तकिरणयुक्तः (उत्) (एनम्) (मरुतः) अ० १।२०।१। वायुगणाः (देवाः) प्रशस्तगुणाः (उत्) (इन्द्राग्नी) विद्युत्पावकौ (स्वस्तये) अ० १।३–०।२। सु+अस सत्तायाम्-ति। सुसत्तायै ॥

    इस भाष्य को एडिट करें
    Top