Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 18
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः। इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत्पा॑रयामसि ॥

    स्वर सहित पद पाठ

    अ॒यम् । दे॒वा॒: । इ॒ह । ए॒व । अ॒स्तु॒ । अ॒यम् । मा । अ॒मुत्र॑ । गा॒त् । इ॒त: । इ॒मम् । स॒हस्र॑ऽवीर्येण । मृ॒त्यो: । उत् । पा॒र॒या॒म॒सि॒ ॥१.१८॥


    स्वर रहित मन्त्र

    अयं देवा इहैवास्त्वयं मामुत्र गादितः। इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥

    स्वर रहित पद पाठ

    अयम् । देवा: । इह । एव । अस्तु । अयम् । मा । अमुत्र । गात् । इत: । इमम् । सहस्रऽवीर्येण । मृत्यो: । उत् । पारयामसि ॥१.१८॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 18

    टिप्पणीः - १८−(अयम्) शूरपुरुषः (देवाः) हे विजिगीषवः (इह) धर्मात्मसु (एव) निश्चयेन (अस्तु) भवतु (मा गात्) न गच्छेत् (अमुत्र) तत्र। दुष्टेषु (इतः) अमरलोकात्। सत्समाजात् (इमम्) सत्पुरुषम् (सहस्रवीर्येण) अपरिमितसामर्थ्येन (मृत्योः) दरिद्रतादिदुःखात् (उत्) उत्कर्षेण (पारयामसि) पार कर्मसमाप्तौ। यद्वा, पॄ पालनपूरणयोः। पारयामः। तारयामः। पालयामः ॥

    इस भाष्य को एडिट करें
    Top