Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    इ॒ह तेऽसु॑रि॒ह प्रा॒ण इ॒हायु॑रि॒ह ते॒ मनः॑। उत्त्वा॒ निरृ॑त्याः॒ पाशे॑भ्यो॒ दैव्या॑ व॒चा भ॑रामसि ॥

    स्वर सहित पद पाठ

    इ॒ह । ते॒ । असु॑: । इ॒ह । प्रा॒ण: । इ॒ह । आयु॑: । इ॒ह । ते॒ । मन॑: । उत् । त्वा॒ । नि:ऽऋ॑त्या: । पाशे॑भ्य: । दैव्या॑ । वा॒चा । भ॒रा॒म॒सि॒ ॥१.३॥


    स्वर रहित मन्त्र

    इह तेऽसुरिह प्राण इहायुरिह ते मनः। उत्त्वा निरृत्याः पाशेभ्यो दैव्या वचा भरामसि ॥

    स्वर रहित पद पाठ

    इह । ते । असु: । इह । प्राण: । इह । आयु: । इह । ते । मन: । उत् । त्वा । नि:ऽऋत्या: । पाशेभ्य: । दैव्या । वाचा । भरामसि ॥१.३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 3

    टिप्पणीः - ३−(इह) अस्मिन् परमेश्वरे (ते) तव (असुः) प्रज्ञा-निघ० ३।९। (इह) (प्राणः) जीवनसाधनं वायुः (इह) (आयुः) जीवनम् (इह) (ते) (मनः) अन्तःकरणम् (उत्) ऊर्ध्वम् (त्वा) (निर्ऋत्याः) अ० २।१०।१। कृच्छापत्तेः। अविद्यायाः (पाशेभ्यः) जालेभ्यः (दैव्या) देव-अण्, ङीप्। देवात् परमेश्वरात् प्राप्तया (वाचा) वाण्या (भरामसि) धरामः ॥

    इस भाष्य को एडिट करें
    Top