अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 11
रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्वन्ता रक्ष॑तु त्वा मनु॒ष्या॒ यमि॒न्धते॑। वै॑श्वान॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग्वि॒द्युता॑ स॒ह ॥
स्वर सहित पद पाठरक्ष॑न्तु । त्वा॒ । अ॒ग्नय॑: । ये । अ॒प्ऽसु । अ॒न्त: । रक्ष॑तु । त्वा॒ । म॒नुष्या᳡: । यम् । इ॒न्धते॑ । वै॒श्वा॒न॒र: । र॒क्ष॒तु॒ । जा॒तऽवे॑दा: । दि॒व्य: । त्वा॒ । मा । प्र । धा॒क् । वि॒ऽद्युता॑ । स॒ह ॥१.११॥
स्वर रहित मन्त्र
रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते। वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥
स्वर रहित पद पाठरक्षन्तु । त्वा । अग्नय: । ये । अप्ऽसु । अन्त: । रक्षतु । त्वा । मनुष्या: । यम् । इन्धते । वैश्वानर: । रक्षतु । जातऽवेदा: । दिव्य: । त्वा । मा । प्र । धाक् । विऽद्युता । सह ॥१.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(रक्षन्तु) (त्वा) (अग्नयः) (ये) (अप्सु) उदकेषु (अन्तः) मध्ये (रक्षतु) पालयतु (अन्ता रक्षतु) ढ्रलोपे पूर्वस्य दीर्घोऽणः। पा० ६।३।१११। इति दीर्घः (त्वा) (मनुष्याः) (यम्) अग्निम् (इन्धते) अन्तर्गतण्यर्थः। दीपयन्ति यज्ञादिषु (वैश्वानरः) सर्वनरेषु वर्तमानो जाठराग्निः (रक्षतु) (जातवेदाः) जातधनः। जातज्ञानः (दिव्यः) दिवि आकाशे भवः सूर्यः (त्वा) (प्र) प्रकर्षेण (मा धाक्) दह भस्मीकरणे-लुङ्। मन्त्रे घसह्वर०। पा० २।४।८०। च्लेर्लुक्। मा दहतु ॥
इस भाष्य को एडिट करें