अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 13
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सू॒र्याया॑वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत्। म॒घासु॑ ह॒न्यन्ते॒ गावः॒ फल्गु॑नीषु॒व्युह्यते ॥
स्वर सहित पद पाठसू॒र्याया॑: । व॒ह॒तु । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् । म॒घासु॑ । ह॒न्यन्ते॑ । गाव॑: । फल्गु॑नीषु । वि । उ॒ह्य॒ते॒ ॥१.१३॥
स्वर रहित मन्त्र
सूर्यायावहतुः प्रागात्सविता यमवासृजत्। मघासु हन्यन्ते गावः फल्गुनीषुव्युह्यते ॥
स्वर रहित पद पाठसूर्याया: । वहतु । प्र । अगात् । सविता । यम् । अवऽअसृजत् । मघासु । हन्यन्ते । गाव: । फल्गुनीषु । वि । उह्यते ॥१.१३॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 13
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
(सविता) उत्पादक पिता (यम्) जिस दहेज को (अवासृजत्) प्रदान करता है वही (सूर्यायाः) सूर्या = कन्या का (वहतुः) दहेज (प्र अगात्) आगे जाये। (मघासु*) मघा नक्षत्रों के योग में (गावः) सूर्य की किरणें भी (हन्यन्ते) मारी जाती हैं, मन्दी हो जाती हैं और इसी कारण (फल्गुनीषु) फल्गुनी नक्षत्रों के योग में (व्युह्यते) विवाह किया जाता है।
टिप्पणी -
(तृ०) ‘अधासु’ (च०) ‘अर्जुन्योः पर्युह्यते’ इति ऋ०।
* मघाः नक्षत्राणि सिंहराशौ। फल्गुन्यश्चापि तत्रैव। अर्जुनी फल्गुनी च पर्यायौ।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें