Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 12
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    को अ॑स्मिन्रू॒पम॑दधा॒त्को म॒ह्मानं॑ च॒ नाम॑ च। गा॒तुं को अ॑स्मि॒न्कः के॒तुं कश्च॒रित्रा॑णि॒ पूरु॑षे ॥

    स्वर सहित पद पाठ

    क: । अ॒स्मि॒न् । रू॒पम् । अ॒द॒धा॒त् । क: । म॒ह्यान॑म् । च॒ । नाम॑ । च॒ । गा॒तुम् । क: । अ॒स्मि॒न् । क: । के॒तुम् । क: । च॒रित्रा॑णि । पुरु॑षे ॥२.१२॥


    स्वर रहित मन्त्र

    को अस्मिन्रूपमदधात्को मह्मानं च नाम च। गातुं को अस्मिन्कः केतुं कश्चरित्राणि पूरुषे ॥

    स्वर रहित पद पाठ

    क: । अस्मिन् । रूपम् । अदधात् । क: । मह्यानम् । च । नाम । च । गातुम् । क: । अस्मिन् । क: । केतुम् । क: । चरित्राणि । पुरुषे ॥२.१२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 12

    भाषार्थ -
    (कः) किस ने (अस्मिन् पूरुषे) इस पुरुष में (रूपम्) रूप को (अदघात्) स्थापित किया, (कः) किस ने (मह्मानम् च) महत्त्व को, (नाम च) और नाम को। (कः) किसने (अस्मिन्) इस में (गातुम्) गति को या गान को, (कः) किस ने (केतुम्) प्रज्ञा को तथा (कः) किसने (चरित्राणि) अच्छे और बुरे चरित्रों को (पुरुषे) इस पुरुष में स्थापित किया है।

    इस भाष्य को एडिट करें
    Top