अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 10
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुब्गर्भा त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
या पु॒रस्ता॑द्यु॒ज्यते॒ या च॑ प॒श्चाद्या वि॒श्वतो॑ यु॒ज्यते॒ या च॑ स॒र्वतः॑। यया॑ य॒ज्ञः प्राङ्ता॒यते॒ तां त्वा॑ पृच्छामि कत॒मा सा ऋ॒चाम् ॥
स्वर सहित पद पाठया । पु॒रस्ता॑त् । यु॒ज्यते॑ । या । च॒ । प॒श्चात् । या । वि॒श्वत॑: । यु॒ज्यते॑ । या । च॒ । सर्वत॑: । यया॑ । य॒ज्ञ: । प्राङ् । ता॒यते॑ । ताम् । त्वा॒ । पृ॒च्छा॒मि॒ । क॒त॒मा । सा । ऋ॒चाम् ॥८.१०॥
स्वर रहित मन्त्र
या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः। यया यज्ञः प्राङ्तायते तां त्वा पृच्छामि कतमा सा ऋचाम् ॥
स्वर रहित पद पाठया । पुरस्तात् । युज्यते । या । च । पश्चात् । या । विश्वत: । युज्यते । या । च । सर्वत: । यया । यज्ञ: । प्राङ् । तायते । ताम् । त्वा । पृच्छामि । कतमा । सा । ऋचाम् ॥८.१०॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 10
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
(या) जो [वाणी] (पुरस्तात्) पहिले से (च) और (या) जो (पश्चात्) पीछे से (युज्यते) संयुक्त है, (या) जो (विश्वतः) सब ओर से (च) और (या) जो (सर्वतः) सब काल से (युज्यते) संयुक्त है। (यया) जिस [वाणी] करके (यज्ञः) यज्ञ [पूजनीय व्यवहार] (प्राङ्) आगे (तायते) फैलता है, (ताम्) उस [वाणी] को (त्वा) तुझसे (पृच्छामि) पूँछता हूँ−“(ऋचाम्) वाणियों में से (सा) वह (कतमा) कौन सी [वाणी] है” ॥१०॥
भावार्थ - जो परमेश्वर सृष्टि के पहिले, पीछे और वर्तमान में है, और जो सब जगत् का कर्ता है, वह ओ३म् वा ब्रह्म है, जिसका वर्णन अगले मन्त्रों में है। गोपथब्राह्मण, पूर्वभाग, प्रथम प्रपाठक, खण्ड २२ में इस मन्त्र की प्रतीक देकर ओङ्कार का विशेष वर्णन है ॥१०॥
टिप्पणी -
१०−(या) ऋक्। वाणी (पुरस्तात्) अग्रे (युज्यते) संयुक्ता भवति (च) (पश्चात्) (विश्वतः) सर्वदेशात् (सर्वतः) सर्वकालात् (यया) ऋचा। वाचा (यज्ञः) पूजनीयव्यवहारः (प्राङ्) अग्रगामी (तायते) विस्तीर्यते (ताम्) (त्वा) विद्वांसम् (पृच्छामि) अहं जिज्ञासे (कतमा) बह्वीनां मध्ये का (सा) (ऋचाम्) ऋग्वाङ्नाम-निघ० १।११। वाचां मध्ये ॥