अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 11
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - जगती
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद्भुव॑त्। तद्दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत्सं॒भूय॑ भव॒त्येक॑मे॒व ॥
स्वर सहित पद पाठयत् । एज॑ति । पत॑ति । यत् । च॒ । तिष्ठ॑ति । प्रा॒णत् । अप्रा॑णत् । नि॒ऽमि॒षत् । च॒ । यत् । भुव॑त् । तत् । दा॒धा॒र॒ । पृ॒थि॒वीम् । वि॒श्वऽरू॑पम् । तत् । स॒म्ऽभूय॑ । भ॒व॒ति॒ । एक॑म् । ए॒व ॥८.११॥
स्वर रहित मन्त्र
यदेजति पतति यच्च तिष्ठति प्राणदप्राणन्निमिषच्च यद्भुवत्। तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥
स्वर रहित पद पाठयत् । एजति । पतति । यत् । च । तिष्ठति । प्राणत् । अप्राणत् । निऽमिषत् । च । यत् । भुवत् । तत् । दाधार । पृथिवीम् । विश्वऽरूपम् । तत् । सम्ऽभूय । भवति । एकम् । एव ॥८.११॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 11
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
(यत्) जो कुछ [जगत्] (एजति) चेष्टा करता है, (पतति) उड़ता है, (च) और (यत्) जो कुछ (तिष्ठति) ठहरता है, (प्राणत्) श्वास लेता हुआ, (अप्राणत्) न श्वास लेता हुआ (च) और (यत्) जो कुछ (निमिषत्) आँख मूँदे हुए (भुवत्) विद्यमान है, (विश्वरूपम्) सबको रूप देनेवाले (तत्) विस्तृत [ब्रह्म] ने [उस सबको और] (पृथिवीम्) पृथिवी को (दाधार) धारण किया था, (तत्) वह [ब्रह्म] (संभूय) शक्तिमान् होकर (एकम् एव) एक ही (भवति) रहता है ॥११॥
भावार्थ - एक अद्वितीय ब्रह्म विविध प्रकार जगत् को रचकर सबका धारण-पोषण करता है ॥११॥
टिप्पणी -
११−(यत्) यत्पदार्थमात्रम् (एजति) चेष्टते (पतति) उड्डीयते (यत्) (च) (तिष्ठति) (प्राणत्) प्रश्वसत् (अप्राणत्) अप्रश्वसत् ( निमिषत्) चक्षुर्निमीलनं कुर्वत् (च) (यत्) (भुवत्) शॄदॄभसोऽदिः। उ० १।१३०। भू सत्तायाम्-अदि, कित्। वर्तमानम् (तत्) त्यजितनि०। उ० १।१३२। तनु विस्तारे-अदि, डित्। विस्तृतं ब्रह्म (दाधार) पुपोष (पृथिवीम्) (विश्वरूपम्) सर्वेषां रूपकरम् (तत्) (संभूय) शक्तिमद् भूत्वा (भवति) वर्तते (एकम्) अद्वितीयम् (एव) ॥