अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 16
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यतः॒ सूर्य॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गच्छ॑ति। तदे॒व म॑न्ये॒ऽहं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न ॥
स्वर सहित पद पाठयत॑: । सूर्य॑: । उ॒त्ऽएति॑ । अस्त॑म् । यत्र॑ । च॒ । गच्छ॑ति । तत् । ए॒व । म॒न्ये॒ । अ॒हम् । ज्ये॒ष्ठम् । तत् । ऊं॒ इति॑ । न । अति॑ । ए॒ति॒ । किम् । च॒न ॥८.१६॥
स्वर रहित मन्त्र
यतः सूर्य उदेत्यस्तं यत्र च गच्छति। तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥
स्वर रहित पद पाठयत: । सूर्य: । उत्ऽएति । अस्तम् । यत्र । च । गच्छति । तत् । एव । मन्ये । अहम् । ज्येष्ठम् । तत् । ऊं इति । न । अति । एति । किम् । चन ॥८.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 16
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
(यतः) जिस से (सूर्यः) सूर्य (उदेति) उदय होता है, (च) और (यत्र) जिस में (अस्तम्) अस्त को (गच्छति) प्राप्त होता है। (तत् एव) उसे ही (ज्येष्ठम्) ज्येष्ठ [सब से बड़ा] (अहम्) मैं (मन्ये) मानता हूँ, (तत् उ) उस से (किं चन) कोई भी (न अति एति) बढ़कर नहीं है ॥१६॥
भावार्थ - जिस परमात्मा से सृष्टिसमय में सूर्य आदि उत्पन्न होते और प्रलयकाल में वे सब जिसमें लय हो जाते हैं, उस महान् की उपासना सब लोग करें ॥१६॥
टिप्पणी -
१६−(यतः) यस्मात् परमेश्वरात् (सूर्यः) (उदेति) उद्गच्छति (अस्तम्) अदर्शनम् (यत्र) यस्मिन् ब्रह्मणि (च) (गच्छति) प्राप्नोति (तत्) ब्रह्म (एव) (मन्ये) जानामि (अहम्) (ज्येष्ठम्) महत्तमम् (तत्) ब्रह्म (उ) पादपूरणे (न) निषेधे (अत्येति) अतिक्रामति (किम् चन) किमपि ॥