अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 37
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यो वि॒द्यात्सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः। सूत्रं॒ सूत्र॑स्य॒ यो वि॒द्याद्स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
स्वर सहित पद पाठय: । वि॒द्यात् । सूत्र॑म् । विऽत॑तम् । यस्मि॑न् । आऽउ॑ता: । प्र॒ऽजा: । इ॒मा: । सूत्र॑म् । सूत्र॑स्य । य: । वि॒द्यात् । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.३७॥
स्वर रहित मन्त्र
यो विद्यात्सूत्रं विततं यस्मिन्नोताः प्रजा इमाः। सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत् ॥
स्वर रहित पद पाठय: । विद्यात् । सूत्रम् । विऽततम् । यस्मिन् । आऽउता: । प्रऽजा: । इमा: । सूत्रम् । सूत्रस्य । य: । विद्यात् । स: । विद्यात् । ब्राह्मणम् । महत् ॥८.३७॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 37
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
(यः) जो [विवेकी] (विततम्) फैले हुए (सूत्रम्) सूत्र [तागे समान कारण] को (विद्यात्) जान लेवे, (यस्मिन्) जिस सूत वा कारण में (इमाः) यह (प्रजाः) प्रजाएँ [कार्यरूप] (ओताः) ओत-प्रोत हैं। (यः) जो [विवेकी] (सूत्रस्य) सूत्र [कारण] के (सूत्रम्) सूत्र [कारण] को (विद्यात्) जान लेवे, (सः) वह (महत्) बड़े (ब्राह्मणम्) ब्राह्मण [ब्रह्मज्ञान] को (विद्यात्) जान लेवे ॥३७॥
भावार्थ - मनुष्य कार्यरूप जगत् के कारण प्रकृति आदि को, और कारण के आदि कारण परमात्मा को जानकर ब्रह्मज्ञानी होता है ॥३७॥ इस मन्त्र का चौथा पाद मन्त्र २० में आया है ॥
टिप्पणी -
३७−(यः) विवेकी (विद्यात्) जानीयात् (सूत्रम्) सिविमुच्योष्टेरू च। उ० ४।१६३। षिवु तन्तुसन्ताने-ष्ट्रन् टेः ऊ च, यद्वा, सूत्र वेष्टने-अच्। कारणरूपं तन्तुम् (विततम्) विस्तृतम् (यस्मिन्) सूत्रे (ओताः) आङ्+वेञ् तन्तुसन्ताने-क्त। परस्परस्यूताः (प्रजाः) सृष्टाः पदार्थाः (इमाः) दृश्यमानाः (सूत्रम्) तन्तुरूपं कारणम् (सूत्रस्य) तन्तुरूपस्य कारणस्य (यः) (विद्यात्) (सः) (विद्यात्) (ब्राह्मणम्) म० २०। ब्रह्मज्ञानम् (महत्) बृहत् ॥