अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 24
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
श॒तं स॒हस्र॑म॒युतं॒ न्यर्बुदमसंख्ये॒यं स्वम॑स्मि॒न्निवि॑ष्टम्। तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द्दे॒वो रो॑चत ए॒ष ए॒तत् ॥
स्वर सहित पद पाठश॒तम् । स॒हस्र॑म् । अ॒युत॑म् । निऽअ॑र्बुदम् । अ॒स॒म्ऽख्ये॒यम् । स्वम् । अ॒स्मि॒न् । निऽवि॑ष्टम् । तत् । अ॒स्य॒ । घ्न॒न्ति॒ । अ॒भि॒ऽपश्य॑त: । ए॒व । तस्मा॑त् । दे॒व: । रो॒च॒ते॒ । ए॒ष: । ए॒तत् ॥८.२४॥
स्वर रहित मन्त्र
शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन्निविष्टम्। तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचत एष एतत् ॥
स्वर रहित पद पाठशतम् । सहस्रम् । अयुतम् । निऽअर्बुदम् । असम्ऽख्येयम् । स्वम् । अस्मिन् । निऽविष्टम् । तत् । अस्य । घ्नन्ति । अभिऽपश्यत: । एव । तस्मात् । देव: । रोचते । एष: । एतत् ॥८.२४॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 24
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
(शतम्) सौ, (सहस्रम्) सहस्र, (अयुतम्) दस सहस्र, (न्यर्बुदम्) दस करोड़, (असंख्येयम्) बे-गिनती (स्वम्) धन (अस्मिन्) इस [परमात्मा] में (निविष्टिम्) रक्खा हुआ है। (अस्य) इस (अभिपश्यतः) सब ओर देखते हुए [परमात्मा] के (तत्) उस [धन] को (एव) निश्चय करके वे [सब प्राणी] (घ्नन्ति) पाते हैं, (तस्मात्) उस [कारण] से (एषः) यह (देवः) देव [स्तुतियोग्य परमात्मा] (एतत्) अब (रोचते) रुचता है [प्रिय लगता है] ॥२४॥
भावार्थ - परमात्मा के अनन्त कोश से अनन्त प्राणी अपने पुरुषार्थ के अनुसार धन आदि पाकर बलवान् होते हैं, इसी से वह जगदीश्वर सबको सदा प्रिय लगता है ॥२४॥
टिप्पणी -
२४−(शतम्) (सहस्रम्) (अयुतम्) दशस्रहस्रम् (न्यर्बुदम्) दशकोटिसंख्याकम् (असंख्येयम्) अपरिमेयम् (स्वम्) धनम् (अस्मिन्) परमात्मनि (निविष्टम्) स्थापितम् (तत्) धनम् (अस्य) ईश्वरस्य (घ्नन्ति) हन हिंसागत्योः। गच्छन्ति। प्राप्नुवन्ति (अभिपश्यतः) अवलोकमानस्य (एव) अवश्यम् (तस्मात्) कारणात् (देवः) स्तुत्यः परमात्मा (रोचते) प्रियो भवति (एषः) दृश्यमानः (एतत्) इदानीम् ॥