अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 21
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
अ॒पादग्रे॒ सम॑भव॒त्सो अग्रे॒ स्वराभ॑रत्। चतु॑ष्पाद्भू॒त्वा भोग्यः॒ सर्व॒माद॑त्त॒ भोज॑नम् ॥
स्वर सहित पद पाठअ॒पात् । अग्रे॑ । सम् । अ॒भ॒व॒त् । स: । अग्रे॑ । स्व᳡: । आ । अ॒भ॒र॒त् । चतु॑:ऽपात् । भू॒त्वा । भोग्य॑: । सर्व॑म् । आ । अ॒द॒त्त॒ । भोजन॑म् ॥८.२१॥
स्वर रहित मन्त्र
अपादग्रे समभवत्सो अग्रे स्वराभरत्। चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥
स्वर रहित पद पाठअपात् । अग्रे । सम् । अभवत् । स: । अग्रे । स्व: । आ । अभरत् । चतु:ऽपात् । भूत्वा । भोग्य: । सर्वम् । आ । अदत्त । भोजनम् ॥८.२१॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 21
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
(अपात्) विभागरहित [परमात्मा] (अग्रे) पहिले (सम् अभवत्) समर्थ हुआ, (सः) उस ने (अग्रे) पहिले (स्वः) मोक्ष सुख (आ) सब ओर से (अभरत्) धारण किया। (चतुष्पात्) चारों दिशाओं में स्थिति वा गतिवाले [उस परमेश्वर] ने (भोग्यः) [सुखों से] भोगने [अनुभव करने] योग्य (भूत्वा) होकर (सर्वम्) सब (भोजनम्) सुख वा ऐश्वर्य को (आ अदत्त) ग्रहण किया ॥२१॥
भावार्थ - परमात्मा सृष्टि के आदि से सब संसार में व्यापकर सब सुखों का भण्डार है ॥२१॥
टिप्पणी -
२१−(अपात्) अ० ९।१०।२३। पादेन विभागेन रहितः परमेश्वरतः (अग्रे) सृष्ट्यादौ (सम् अभवत्) समर्थोऽभवत् (सः) (अग्रे) (स्वः) मोक्षसुखम् (आ) समन्तात् (अभरत्) धृतवान् (चतुष्पात्) अ० ४।११।५। पद स्थैर्ये गतौ च-घञ्, अन्तलोपः। चतसृषु दिक्षु पादः स्थितिर्गतिर्वा यस्य सः परमेश्वरः (भूत्वा) (भोग्यः) भुज पालनाभ्यवहारयोः-ण्यत्। सुखैरनुभवनीयः (सर्वम्) (आ अदत्त) गृहीतवान् (भोजनम्) भुज-ल्युट्। सुखम्। ऐश्वर्यम्। धनम्-निघ० २।१० ॥