अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 22
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - पुरउष्णिक्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
भोग्यो॑ भव॒दथो॒ अन्न॑मदद्ब॒हु। यो दे॒वमु॑त्त॒राव॑न्तमु॒पासा॑तै सना॒तन॑म् ॥
स्वर सहित पद पाठभोग्य॑: । भ॒व॒त् । अथो॒ इति॑ । अन्न॑म् । अ॒द॒त् । ब॒हु । य: । दे॒वम् । उ॒त्त॒रऽव॑न्तम् । उ॒प॒ऽआसा॑तै । स॒ना॒तन॑म् ॥८.२२॥
स्वर रहित मन्त्र
भोग्यो भवदथो अन्नमदद्बहु। यो देवमुत्तरावन्तमुपासातै सनातनम् ॥
स्वर रहित पद पाठभोग्य: । भवत् । अथो इति । अन्नम् । अदत् । बहु । य: । देवम् । उत्तरऽवन्तम् । उपऽआसातै । सनातनम् ॥८.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 22
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
वह (भोग्यः) [सुखों से] अनुभवयोग्य (भवत्) होगा (अथो) और भी (बहु) बहुत (अन्नम्) अन्न [जीवनसाधन] (अदत्) भोगेगा। (यः) जो [मनुष्य] (उत्तरवन्तम्) अति उत्तम गुणवाले (सनातनम्) सनातन [नित्य स्थायी] (देवम्) देव [स्तुतियोग्य परमेश्वर] को (उपासातै) पूजेगा ॥२२॥
भावार्थ - वह मनुष्य अनेक सुखों से युक्त होकर बहुत अन्नवान् होगा, जो जगत्पिता परमेश्वर की उपासना करेगा ॥२२॥
टिप्पणी -
२२−(भोग्यः) सुखैरनुभवनीयः (भवत्) लेट्। भूयात् (अथो) अपि च (अन्नम्) जीवनसाधनम् (अदत्) लेट्। अद्यात् (बहु) (यः) पुरुषः (देवम्) स्तुत्यं परमात्मानम् (उत्तरवन्तम्) अ० ४।२२।५। अतिश्रेष्ठगुणयुक्तम् (उपासातै) आस उपवेशने−लेट्। पूजयेत् (सनातनम्) सायंचिरंप्राह्णेप्रगे०। पा० ४।३।२३। इति सना−ट्युल् तुट् च। सदाभवम्। नित्यं परमेश्वरम् ॥