अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 29
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
पू॒र्णात्पू॒र्णमुद॑चति पू॒र्णं पू॒र्णेन॑ सिच्यते। उ॒तो तद॒द्य वि॑द्याम॒ यत॒स्तत्प॑रिषि॒च्यते॑ ॥
स्वर सहित पद पाठपू॒र्णात् । पू॒र्णम् । उत् । अ॒च॒ति॒ । पू॒र्णम् । पू॒र्णेन॑ । सि॒च्य॒ते॒ । उ॒तो इति॑ । तत् । अ॒द्य । वि॒द्या॒म॒ । यत॑: । तत् । प॒रि॒ऽसि॒च्यते॑ ॥८.२९॥
स्वर रहित मन्त्र
पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते। उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥
स्वर रहित पद पाठपूर्णात् । पूर्णम् । उत् । अचति । पूर्णम् । पूर्णेन । सिच्यते । उतो इति । तत् । अद्य । विद्याम । यत: । तत् । परिऽसिच्यते ॥८.२९॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 29
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
(पूर्णात्) पूर्ण [ब्रह्म] से (पूर्णम्) सम्पूर्ण [जगत्] (उत् अचति) उदय होता है। (पूर्णेन) पूर्ण [ब्रह्म] करके (पूर्णम्) संपूर्ण [जगत्] (सिच्यते) सींचा जाता है। (उतो) और भी (तत्) उस [कारण] को (अद्य) आज (विद्याम) हम जानें, (यतः) जिस कारण से (तत्) वह [सम्पूर्ण जगत्] (परिषिच्यते) सब प्रकार सींचा जाता है ॥२९॥
भावार्थ - यह सम्पूर्ण जगत् परमात्मा से उत्पन्न होकर वृद्धि को प्राप्त होता है। उसी परब्रह्म की उपासना सब लोग करें ॥२९॥
टिप्पणी -
२९−(पूर्णात्) सर्वश्रेष्ठगुणपूरितात् परमात्मनः (पूर्णम्) समग्रं जगत् (उदचति) उदेति (पूर्णम्) समग्रम् (पूर्णेन) परमात्मना (सिच्यते) आर्द्रीक्रियते। वर्ध्यते (उतो) अपि च (तत्) कारणम् (अद्य) अस्मिन् दिने (विद्याम) जानीम (यतः) यस्मात् कारणात् (तत्) पूर्णं जगत् (परिषिच्यते) सर्वतो वर्ध्यते ॥