अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 18
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
स॑हस्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्। स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न्याति॒ भुव॑नानि॒ विश्वा॑ ॥
स्वर सहित पद पाठस॒ह॒स्र॒ऽअ॒ह्न्यम् । विऽय॑तौ । अ॒स्य॒ । प॒क्षौ । हरे॑: । हं॒सस्य॑ । पत॑त: । स्व॒:ऽगम् । स: । दे॒वान् । सर्वा॑न् । उर॑सि । उ॒प॒ऽदद्य॑ ।स॒म्ऽपश्य॑न् । या॒ति॒ । भुव॑नानि । विश्वा॑ ॥८.१८॥
स्वर रहित मन्त्र
सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम्। स देवान्त्सर्वानुरस्युपदद्य संपश्यन्याति भुवनानि विश्वा ॥
स्वर रहित पद पाठसहस्रऽअह्न्यम् । विऽयतौ । अस्य । पक्षौ । हरे: । हंसस्य । पतत: । स्व:ऽगम् । स: । देवान् । सर्वान् । उरसि । उपऽदद्य ।सम्ऽपश्यन् । याति । भुवनानि । विश्वा ॥८.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 18
विषय - परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थ -
(स्वर्गम्) मोक्षसुख को (पततः) प्राप्त हुए (अस्य) इस [सर्वत्र वर्तमान] (हरेः) हरि [दुःख हरनेवाले] (हंसस्य) हंस [सर्वव्यापक परमेश्वर] के (पक्षौ) दोनों पक्ष [ग्रहण करने योग्य कार्य कारणरूप व्यवहार] (सहस्राह्ण्यम्) सहस्रों दिनोंवाले [अनन्त देश काल] में (वियतौ) फैले हुए हैं। (सः) वह [परमेश्वर] (सर्वान्) सब (देवान्) दिव्यगुणों को [अपने] (उरसि) हृदय में (उपदद्य) लेकर (विश्वा) सब (भुवनानि) लोकों को (संपश्यन्) निरन्तर देखता हुआ (याति) चलता रहता है ॥१८॥
भावार्थ - जैसे परमेश्वर अन्तर्यामी रूप से अनन्त कार्य-कारणरूप जगत् की निरन्तर सुधि रखता है, वैसे ही मनुष्य परमेश्वर का विचार करता हुआ सब कामों में सदा सावधान रहे ॥१८॥
टिप्पणी -
१८−(सहस्राह्ण्यम्) मये च। पा० ४।४।१३८। बाहुलकाद् य प्रत्ययः। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। सहस्रदिनयुक्तम्। अनन्तं देशं कालं वा (वियतौ) यम-क्त। विस्तृतौ (अस्य) (पक्षौ) पक्ष परिग्रहे-अच्। परिग्रहौ कार्यकारणरूपौ-यथा दयानन्दभाष्ये, यजु० १८।५२। (हरेः) दुःखहरस्य (हंसस्य) म० १७ (पततः) गच्छतः। प्राप्नुवतः (स्वर्गम्) मोक्षसुखम् (सः) (देवान्) दिव्यगुणान् (सर्वान्) (उरसि) हृदये (उपदद्य) उप+दद दाने-ल्यप्। आदाय (संपश्यन्) निरीक्ष्यमाणः (याति) गच्छति (भुवनानि) लोकान् (विश्वा) सर्वाणि ॥