Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 10
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - एकपदोष्णिक्
सूक्तम् - ब्रह्मगवी सूक्त
पय॑श्च॒ रस॒श्चान्नं॑ चा॒न्नाद्यं॑ च॒र्तं च॑ स॒त्यं चे॒ष्टं च॑ पू॒र्तं च॑ प्र॒जा च॑ प॒शव॑श्च ॥
स्वर सहित पद पाठपय॑: । च॒ । रस॑: । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च॒ । ऋ॒तम् । च॒ । स॒त्यम् । च॒ । इ॒ष्टम् । च॒ । पू॒र्तम् । च॒ । प्र॒ऽजा । च॒ । प॒शव॑: । च॒ ॥६.४॥
स्वर रहित मन्त्र
पयश्च रसश्चान्नं चान्नाद्यं चर्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥
स्वर रहित पद पाठपय: । च । रस: । च । अन्नम् । च । अन्नऽअद्यम् । च । ऋतम् । च । सत्यम् । च । इष्टम् । च । पूर्तम् । च । प्रऽजा । च । पशव: । च ॥६.४॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(पयः) दुग्धजलादिकम् (च) (रसः) घृतमधुसोमरसादिः−(च) (अन्नम्) कॄवृजॄसिद्रु०। उ० ३।१०। अन जीवने−न प्रत्ययः, नित्। जीवनसाधनम्। गोधूमयवव्रीह्यादिकम् (च) (अन्नाद्यम्) अन्न+अद भक्षणे−यत्। वाहिताग्न्यादिषु। पा० २।२।३७। इति रूपसिद्धिः। अत्तुं योग्यमद्यं च तदन्नं च सूपशाकफलादिकं भक्ष्यद्रव्यम् (च) (ऋतम्) वेदज्ञानम् (च) (सत्यम्) मानसिकवाचिककायिकयथार्थकर्म (च) (इष्टम्) अ० २।१२।४। अग्निहोत्रवेदाध्ययनाऽऽतिथ्यादि कर्म (च) (पूर्तम्) अ० २।१२।४। पॄ पालनपूरणयोः−क्त। सर्वोपकारी कर्म कूपतडागारामवाटिकादिकम् (च) (प्रजाः) सन्तानादयो राज्यजनाश्च (च) (पशवः) हस्तितुरगगवादयः (च) ॥
इस भाष्य को एडिट करें