Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 9
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - आर्च्येकपदानुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    आयु॑श्च रू॒पं च॒ नाम॑ च की॒र्तिश्च॑ प्रा॒णश्चा॑पा॒नश्च॒ चक्षु॑श्च॒ श्रोत्रं॑ च ॥

    स्वर सहित पद पाठ

    आयु॑: । च॒ । रू॒पम् । च॒ । नाम॑ । च॒ । की॒र्ति: । च॒ । प्रा॒ण: । च॒ । अ॒पा॒न: । च॒ । चक्षु॑: । च॒ । श्रोत्र॑म् । च॒ ॥६.३॥


    स्वर रहित मन्त्र

    आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥

    स्वर रहित पद पाठ

    आयु: । च । रूपम् । च । नाम । च । कीर्ति: । च । प्राण: । च । अपान: । च । चक्षु: । च । श्रोत्रम् । च ॥६.३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 9

    टिप्पणीः - ९−(आयुः) ब्रह्मचर्यसेवनेन वीर्यरक्षणेन च जीवनवर्धनम् (च) (रूपम्) शरीरपुष्ट्या सौन्दर्यम् (च) (नाम) सत्कर्मानुष्ठानेन प्रसिद्धिः (च) (कीर्तिः) सद्गुणग्रहणार्थमीश्वरगुणानां कीर्तनं विद्यादानादिसत्याचरणेन स्वप्रशंसा स्थिरीकरणं च (च) (प्राणः) (च) (अपानः) (च) (चक्षुः) दर्शनम्। प्रत्यक्षानुमानोपमानप्रमाणजातम् (च) (श्रोत्रम्) श्रवणम्। शब्दैतिह्यार्थापत्तिसंभवाभावप्रमाणजातम् (च) ॥

    इस भाष्य को एडिट करें
    Top