Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 72
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - प्राजापत्या त्रिष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अ॒ग्निरे॑नं क्र॒व्यात्पृ॑थि॒व्या नु॑दता॒मुदो॑षतु वा॒युर॒न्तरि॑क्षान्मह॒तो व॑रि॒म्णः ॥
स्वर सहित पद पाठअ॒ग्नि: । ए॒न॒म् । क्र॒व्य॒ऽअत् । पृ॒थि॒व्या: । नु॒द॒ता॒म् । उत् । ओ॒ष॒तु॒ । वा॒यु: । अ॒न्तरि॑क्षात्। म॒ह॒त: । व॒रि॒म्ण: ॥१.११॥
स्वर रहित मन्त्र
अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान्महतो वरिम्णः ॥
स्वर रहित पद पाठअग्नि: । एनम् । क्रव्यऽअत् । पृथिव्या: । नुदताम् । उत् । ओषतु । वायु: । अन्तरिक्षात्। महत: । वरिम्ण: ॥१.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 72
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७२, ७३−(अग्निः) प्रत्यक्षः (एनम्) वेदविरोधिनम्। ब्रह्मज्यम् (क्रव्यात्) मांसभक्षकः। शवदाहकः (पृथिव्याः) पृथिवीलोकात् (नुदताम्) प्रेरयतु (उदोषतु) सर्वथा दहतु (वायुः) (अन्तरिक्षात्) मध्यलोकात् (महतः) विशालात् (वरिम्णः) विस्तारात् (सूर्यः) (एनम्) दुष्कारिणम् (दिवः) प्रकाशात् (प्रणुदताम्) प्रक्षिपतु (न्योषतु) नीचैर्दहतु ॥
इस भाष्य को एडिट करें