Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 44
    सूक्त - अथर्वाचार्यः देवता - ब्रह्मगवी छन्दः - पिपीलिकमध्यानुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    वि॑वा॒हां ज्ञा॒तीन्त्सर्वा॒नपि॑ क्षापयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑ क्ष॒त्रिये॒णापु॑नर्दीयमाना ॥

    स्वर सहित पद पाठ

    वि॒ऽवा॒हान् । ज्ञा॒तीन् । सर्वा॑न् । अपि॑ । क्षा॒प॒य॒ति॒ । ब्र॒ह्म॒ऽग॒वी । ब्र॒ह्म॒ऽज्यस्य॑ । क्ष॒त्रिये॑ण । अपु॑न:ऽदीयमाना ॥९.६॥


    स्वर रहित मन्त्र

    विवाहां ज्ञातीन्त्सर्वानपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥

    स्वर रहित पद पाठ

    विऽवाहान् । ज्ञातीन् । सर्वान् । अपि । क्षापयति । ब्रह्मऽगवी । ब्रह्मऽज्यस्य । क्षत्रियेण । अपुन:ऽदीयमाना ॥९.६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 44

    टिप्पणीः - ४४−(विवाहान्) विवाहसंस्कारान् (ज्ञातीन्) बान्धवान् (सर्वान्) (अपि) एव (क्षापयति) क्षै क्षये−णिच्। नाशयति (ब्रह्मगवी) म० ५। वेदवाणी (ब्रह्मज्यस्य) म० १५। ब्रह्मचारिणां हानिकरस्य (क्षत्रियेण) राजन्येन (अपुनर्दीयमाना) न पुनर्दीयमाना ॥

    इस भाष्य को एडिट करें
    Top