Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 39
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्नी पङ्क्तिः
सूक्तम् - ब्रह्मगवी सूक्त
तस्या॑ आ॒हन॑नं कृ॒त्या मे॒निरा॒शस॑नं वल॒ग ऊब॑ध्यम् ॥
स्वर सहित पद पाठतस्या॑: । आ॒ऽहन॑नम् । कृ॒त्या । मे॒नि: । आ॒ऽशस॑नम्। व॒ल॒ग: । ऊब॑ध्यम् ॥९.१॥
स्वर रहित मन्त्र
तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥
स्वर रहित पद पाठतस्या: । आऽहननम् । कृत्या । मेनि: । आऽशसनम्। वलग: । ऊबध्यम् ॥९.१॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 39
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३९−(तस्याः) ब्रह्मगव्याः (आहननम्) समन्तात्ताडनम् (कृत्या) म० १२। हिंसाक्रिया (मेनिः) वज्रः (आशसनम्) शसु हिंसायाम्−ल्युट्। सर्वथा हिंसनम् (वलगः) अ० ५।३१।४। मुदिग्रोर्गग्गौ। उ० १।१२८। बल वधे−ग प्रत्ययः, अकारागमः। वधः (ऊबध्यम्) अ० ९।४।१६। दुर्+बध संयमने=बन्धने−यत्, दुर् इत्यस्य स्थाने ऊत्त्वम्। दुर्बन्धनम् ॥
इस भाष्य को एडिट करें