Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 48
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आर्ष्यनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
क्षि॒प्रं वै तस्या॒दह॑नं॒ परि॑ नृत्यन्ति के॒शिनी॑राघ्ना॒नाः पा॒णिनोर॑सि कुर्वा॒णाः पा॒पमै॑ल॒बम् ॥
स्वर सहित पद पाठतस्य॑ । आ॒ऽदह॑नम् । परि॑। नृ॒त्य॒न्ति॒ । के॒शिनी॑: । आ॒ऽघ्ना॒ना: । पा॒णिना॑ । उर॑सि । कु॒र्वा॒णा: । पा॒पम् । ऐ॒ल॒बम् ॥१०.२॥
स्वर रहित मन्त्र
क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥
स्वर रहित पद पाठतस्य । आऽदहनम् । परि। नृत्यन्ति । केशिनी: । आऽघ्नाना: । पाणिना । उरसि । कुर्वाणा: । पापम् । ऐलबम् ॥१०.२॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 48
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४८−(क्षिप्रम्) (वै) एव (तस्य) वेदनिन्दकस्य (आदहनम्) भस्मीकरणस्थानम् (परि) प्रति (नृत्यन्ति) इतस्ततो विचरन्ति (केशिनीः) दीर्घकेशवत्यः (आघ्नानाः) हन हिंसागत्योः−चानश्। ताडयन्त्यः (पाणिना) हस्तेन (उरसि) वक्षसि (कुर्वाणाः) कुर्वत्यः (पापम्) अशुभम् (ऐलबम्) म० ४७। विलापध्वनिम् ॥
इस भाष्य को एडिट करें