Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 36
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्न्युष्णिक्
सूक्तम् - ब्रह्मगवी सूक्त
श॒र्वः क्रु॒द्धः पि॒श्यमा॑ना॒ शिमि॑दा पिशि॒ता ॥
स्वर सहित पद पाठश॒र्व: । क्रु॒ध्द: । पि॒श्यमा॑ना । शिमि॑दा । पि॒शि॒ता ॥८.९॥
स्वर रहित मन्त्र
शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥
स्वर रहित पद पाठशर्व: । क्रुध्द: । पिश्यमाना । शिमिदा । पिशिता ॥८.९॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 36
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३६−(शर्वः) शॄ हिंसायाम्−व प्रत्ययः। हिंसकः पुरुषः (क्रुद्धः) कुपितः (पिश्यमाना) पिश अवयवे। अवयवीक्रियमाणा (शिमिदा) शमु उपशमे−इन् वा ङीप्+दाप् लवने−क, टाप्। विहितकर्मनाशिका। शिमीति कर्मनाम शमयतेर्वा शक्नोतेर्वा−निरु० ५।१२। (पिशिता) अवयवीकृता ॥
इस भाष्य को एडिट करें