Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 11
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आ घा॒ ताग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा॑मि। उप॑ बर्बृहि वृष॒भाय॑बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ॥

    स्वर सहित पद पाठ

    आ । घ॒ । ता । ग॒च्छा॒न् । उत्ऽत॑रा । यु॒गानि॑ । यत्र॑ । जा॒मय॑: । कृ॒णव॑न् । अजा॑मि । उप॑ । ब॒र्बृ॒ही॒ । वृ॒ष॒भाय॑ । बा॒हुम् । अ॒न्यम् । इ॒च्छ॒स्व॒ । सु॒ऽभ॒गे॒ । पति॑म् । मत् ॥१.११॥


    स्वर रहित मन्त्र

    आ घा तागच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि। उप बर्बृहि वृषभायबाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥

    स्वर रहित पद पाठ

    आ । घ । ता । गच्छान् । उत्ऽतरा । युगानि । यत्र । जामय: । कृणवन् । अजामि । उप । बर्बृही । वृषभाय । बाहुम् । अन्यम् । इच्छस्व । सुऽभगे । पतिम् । मत् ॥१.११॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 11

    टिप्पणीः - ११−(आ गच्छान्) आगच्छेयुः (घ) निश्चयेन (ता) तानि (उत्तरा) आगामीनि (युगानि) समयविशेषाः (यत्र) येषु युगेषु (जामयः)कुलस्त्रियः। भगिन्यः (कृणवन्) कृवि हिंसाकरणयोः। कुर्युः (अजामि) कुलस्त्रीणांभगिनीनां वा अयोग्यं कर्म (उप) समीपे (बर्बृहि) बृह वृद्धौ यङ्लुकि लोट्। भृशंवर्धय (वृषभाय) श्रेष्ठाय वराय (बाहुम्) स्वभुजम् (अन्यम्) भिन्नपुरुषम् (इच्छस्व) कामयस्व (सुभगे) हे बह्वैश्वर्यवति (पतिम्) भर्तारम् (मत्) मत्तः ॥

    इस भाष्य को एडिट करें
    Top