Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 6
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    को अ॒द्ययु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून्।आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥

    स्वर सहित पद पाठ

    क: । अ॒द्य । युङ्क्ते॒ । धु॒रि । गा: । ऋ॒तस्य॑ । शिमी॑ऽवत: । भा॒मिन॑: । दु॒:ऽहृ॒णा॒यून् । आ॒सन्ऽइ॑षून् । हृ॒त्सु॒ऽअस॑: । म॒य॒:ऽभून् । य: । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । स: । जी॒वा॒त् ॥१.६॥


    स्वर रहित मन्त्र

    को अद्ययुङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून्।आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥

    स्वर रहित पद पाठ

    क: । अद्य । युङ्क्ते । धुरि । गा: । ऋतस्य । शिमीऽवत: । भामिन: । दु:ऽहृणायून् । आसन्ऽइषून् । हृत्सुऽअस: । मय:ऽभून् । य: । एषाम् । भृत्याम् । ऋणधत् । स: । जीवात् ॥१.६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 6

    टिप्पणीः - ६−(कः)करोतेर्डप्रत्ययः। कर्ता। प्रजापतिः परमेश्वरः (अद्य) अस्मिन् दिने (युङ्क्ते)योजयति (धुरि) भारे (गाः) गौः स्तोतृनाम-निघ० ३।१६। गायकान् (शिमीवतः) शिमीकर्मनाम-निघ० २।१। उत्तमकर्मयुक्तान् (भामिनः) भाम-इनि। तेजस्विनः (दुर्हृणायून्) हृणीयतेः क्रुध्यतिकर्मा-निघ० २।१२। हृणीङ् रोषणे लज्जायांच-उण्, कण्ड्वादित्वाद् यक्, अतो लोपे सति ईकारस्य आकारः। शत्रुषुमहाक्रोधयुक्तान् (आसन्निषून्) पद्दन्नोमास्०। पा० ६।१।६३। आसनशब्दस्य आसन्आदेशः। आसने लक्ष्ये प्राप्तबाणान् (हृत्स्वसः) अस्यतेः-क्विप्। शत्रुहृदयेषुप्रक्षिप्तशस्त्रान् (मयोभून्) सुखं भावुकान् वीरान् (यः) पुरुषः (एषाम्)वीराणाम् (भृत्याम्) पोषणरीतिम् (ऋणधत्) ऋधु वृद्धौ-लेटि अडागमः। वर्धयेत् (सः) (जीवात्) लेटि आडागमः। चिरं जीवेत्। यशस्वी भवेत् ॥

    इस भाष्य को एडिट करें
    Top