Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 16
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अ॒न्यमू॒ षुय॑म्य॒न्य उ॒ त्वां परि॑ ष्वजातै॒ लिबु॑जेव वृ॒क्षम्। तस्य॑ वा॒ त्वं मन॑ इच्छा॒स वा॒ तवाधा॑ कृणुष्व संविदं॒ सुभ॑द्राम् ॥

    स्वर सहित पद पाठ

    अ॒न्यम् । ऊं॒ इति॑ । सु । य॒मि॒ । अ॒न्य: । ऊं॒ इति॑ । त्वाम् । परि॑ । स्व॒जा॒तै॒ । लिबु॑जाऽइव । वृ॒क्षम् । तस्य॑ । वा॒ । त्वम् । मन॑: । इ॒च्छ । स: । वा॒ । तव॑ । अध॑ । कृ॒णु॒ष्व॒ । स॒म्ऽविद॑म् । सुऽभ॑द्राम् ॥१.१६॥


    स्वर रहित मन्त्र

    अन्यमू षुयम्यन्य उ त्वां परि ष्वजातै लिबुजेव वृक्षम्। तस्य वा त्वं मन इच्छास वा तवाधा कृणुष्व संविदं सुभद्राम् ॥

    स्वर रहित पद पाठ

    अन्यम् । ऊं इति । सु । यमि । अन्य: । ऊं इति । त्वाम् । परि । स्वजातै । लिबुजाऽइव । वृक्षम् । तस्य । वा । त्वम् । मन: । इच्छ । स: । वा । तव । अध । कृणुष्व । सम्ऽविदम् । सुऽभद्राम् ॥१.१६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 16

    टिप्पणीः - १६−(अन्यम्) भिन्नपुरुषम्-परिष्वजेति शेषः (उ) एव (सु) सुष्ठु (यमि) म० ८। हे यमजे भगिनि (अन्यः) इतरः पुरुषः (उ) (त्वाम्) (परिष्वजातै) आलिङ्गेत् (लिबुजा) अ० ६।८।१। लता (इव) यथा) (वृक्षम्) (तस्य)वरस्य (वा) समुच्चये। च (त्वम्) (मनः) चित्तम् (इच्छ) कामयस्व (सः) वरः (वा) च (तव) (अध) अथ। अनन्तरम् (कृणुष्व) कुरु (संविदम्) संगतिम् (सुभद्राम्)अत्यन्तमङ्गलप्रदाम् ॥

    इस भाष्य को एडिट करें
    Top