Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 46
    सूक्त - पितरगण देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    इ॒दं पि॒तृभ्यो॒नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ ये अप॑रास ई॒युः। ये पार्थि॑वे॒ रज॒स्यानिष॑क्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु दि॒क्षु ॥

    स्वर सहित पद पाठ

    इ॒दम् । पि॒तृऽभ्य॑: । नम॑: । अ॒स्तु॒ । अ॒द्य । ये । पूर्वा॑स: । ये । अप॑रास: । ई॒यु: । ये । पार्थि॑वे । रज॑सि । आ । निऽस॑क्ता: । ये । वा॒ । नू॒नम् । सु॒ऽवृ॒जना॑सु । दि॒क्षु ॥१.४६॥


    स्वर रहित मन्त्र

    इदं पितृभ्योनमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः। ये पार्थिवे रजस्यानिषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥

    स्वर रहित पद पाठ

    इदम् । पितृऽभ्य: । नम: । अस्तु । अद्य । ये । पूर्वास: । ये । अपरास: । ईयु: । ये । पार्थिवे । रजसि । आ । निऽसक्ता: । ये । वा । नूनम् । सुऽवृजनासु । दिक्षु ॥१.४६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 46

    टिप्पणीः - ४६−(इदम्) (पितृभ्यः) पालकेभ्योविद्वद्भ्यः (नमः) अन्नम् (अस्तु) (अद्य) इदानीम् (पूर्वासः) पूर्वे विद्वांसःसन्तः (ये) (अपरासः) अपरे। अर्वाचीनाः। नूतना विद्वांसः (ईयुः) जग्मुः। गताः (ये) (पार्थिवे) भूमिविद्यासम्बन्धिनि। राजनीतिसम्बन्धिनि (रजसि) लोके। समाजे (आ) आगत्य (निषत्ताः) निषण्णाः। उपविष्टाः (ये) (वा) चार्थे (नूनम्) निश्चयेन (सुवृजनासु) वृजनं बलनाम-निघ० २।९। शोभनं वृजनं बलं दुर्गसेनादिकं यासांतादृशीषु (दिक्षु) प्राच्यादिषु ॥

    इस भाष्य को एडिट करें
    Top