Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 50
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    य॒मो नो॑ गा॒तुंप्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑। यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॒परे॑ता ए॒ना ज॑ज्ञा॒नाः प॒थ्या॒ अनु॒ स्वाः ॥

    स्वर सहित पद पाठ

    य॒म: । न॒: । गा॒तुम् । प्र॒थ॒म: । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑ति: । अप॑ऽभ॒र्त॒वै । ऊं॒ इति॑ । यत्र॑ । न॒: । पूर्वे॑ । पि॒तर॑: । परा॑ऽइता: । ए॒ना । ज॒ज्ञा॒ना: । प॒थ्या᳡:। अनु॑ । स्वा: ॥१.५०॥


    स्वर रहित मन्त्र

    यमो नो गातुंप्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ। यत्रा नः पूर्वे पितरःपरेता एना जज्ञानाः पथ्या अनु स्वाः ॥

    स्वर रहित पद पाठ

    यम: । न: । गातुम् । प्रथम: । विवेद । न । एषा । गव्यूति: । अपऽभर्तवै । ऊं इति । यत्र । न: । पूर्वे । पितर: । पराऽइता: । एना । जज्ञाना: । पथ्या:। अनु । स्वा: ॥१.५०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 50

    टिप्पणीः - ५०−(यमः)न्यायकारी परमेश्वरः (नः) अस्मभ्यम् (गातुम्) मार्गम् (प्रथमः) सर्वादिमः (विवेद) विद ज्ञाने-लिट्। ज्ञातवान् (न) निषेधे (एषा) पूर्वस्थापिता (गव्यूतिः)पद्धतिः (अपभर्तवै) तुमर्थे सेसेनसे०। पा० ३।४।९। इति तवै। अपभर्त्तुंदूरीकर्तुम् (उ) निश्चयेन (यत्र) यस्मिन् मार्गे (नः) अस्माकम् (पूर्वे)पूर्वजाः (पितरः) पालका महापुरुषाः (परेताः) पराक्रमेण गताः (एना) अनेन (जज्ञानाः) जाताः प्राणिनः (पथ्याः) पथे राजमार्गाय हितान् महामार्गान् (अनु)प्रति (स्वाः) स्वीयाः ॥

    इस भाष्य को एडिट करें
    Top