Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 61
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    इ॒त ए॒तउ॒दारु॑हन्दि॒वस्पृ॒ष्ठान्यारु॑हन्। प्र भू॒र्जयो॒ यथा॑ प॒था द्यामङ्गि॑रसोय॒युः ॥

    स्वर सहित पद पाठ

    इ॒त: । ए॒ते । उत् । आ । अ॒रु॒ह॒न् । दि॒व: । पृ॒ष्ठानि॑ । आ । अ॒रु॒ह॒न् । प्र । भू॒:ऽजय॑: । यथा॑ । पथा॑ । द्याम् । अङ्गि॑रस: । य॒यु: ॥१.६१॥


    स्वर रहित मन्त्र

    इत एतउदारुहन्दिवस्पृष्ठान्यारुहन्। प्र भूर्जयो यथा पथा द्यामङ्गिरसोययुः ॥

    स्वर रहित पद पाठ

    इत: । एते । उत् । आ । अरुहन् । दिव: । पृष्ठानि । आ । अरुहन् । प्र । भू:ऽजय: । यथा । पथा । द्याम् । अङ्गिरस: । ययु: ॥१.६१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 61

    टिप्पणीः - ६१−(इतः) (अस्मात्)स्थानात्। सामान्यदशासकाशात् (एते) पितरः (उत्) उत्तमतया (आ अरुहन्) आरूढा अभवन् (दिवः) व्यवहारस्य (पृष्ठानि) प्रष्टव्यानि स्थानानि (आ अरुहन्) (प्र) प्रकर्षेण (भूर्जयः) भू सत्तायाम्-रुक्। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। जि जये-विच्।भूर्भुवो भूमेर्जेतारः (यथा) सादृश्ये (पथा) सन्मार्गेण (द्याम्) विद्याप्रकाशम् (अङ्गिरसः) महाविज्ञानिनः (ययुः) प्रापुः ॥

    इस भाष्य को एडिट करें
    Top