अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 7
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
को अ॒स्य वे॑दप्रथ॒मस्याह्नः॒ क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत्। बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥
स्वर सहित पद पाठक: । अ॒स्य । वे॒द॒ । प्र॒थ॒मस्य॑ । अह्न॑: । क: । ई॒म् । द॒द॒र्श॒ । क: । इ॒ह । प्र । वो॒च॒त् । बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । कत् । ऊं॒ इति॑ । ब्र॒व॒: । आ॒ह॒न॒:। वीच्या॑ । नॄन् ॥१.७॥
स्वर रहित मन्त्र
को अस्य वेदप्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्। बृहन्मित्रस्य वरुणस्यधाम कदु ब्रव आहनो वीच्या नॄन् ॥
स्वर रहित पद पाठक: । अस्य । वेद । प्रथमस्य । अह्न: । क: । ईम् । ददर्श । क: । इह । प्र । वोचत् । बृहत् । मित्रस्य । वरुणस्य । धाम । कत् । ऊं इति । ब्रव: । आहन:। वीच्या । नॄन् ॥१.७॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(कः) प्रश्ने। कः पुरुषः (अस्य) जगतः (वेद) जानाति (प्रथमस्य) प्रथमम् (अह्नः) अहः। दिनम् (कः) (ईम्) इदं दिनम् (ददर्श) दृष्टवान् (कः) (इह) अस्मिन् विषये (प्र वोचत्) प्रकथयेत् (बृहत्) महत् (मित्रस्य) डुमिञ्प्रक्षेपणे−क्त्र। सर्वप्रेरकस्य (वरुणस्य) श्रेष्ठस्य परमेश्वरस्य (धाम)धारणसामर्थ्यम्। प्रभावः (कत्) कथम् (उ) पादपूरणः (ब्रवः) ब्रूयाः। ब्रवीषि (आहनः) आङ्+हन हिंसागत्योः-असुन्। हे आहननशीले। क्लेशकारिणि (वीच्या) व्यचव्याजीकरणे-कि प्रत्ययः। छान्दसो दीर्घः। छलेन (नॄन्) नयतेर्डिच्च। उ० २।१००।णीञ् प्रापणे-ऋ, स च डित्। नेतॄन् पुरुषान् ॥
इस भाष्य को एडिट करें