अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 41
सर॑स्वतींदेव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने। सर॑स्वतीं सु॒कृतो॑ हवन्ते॒सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥
स्वर सहित पद पाठसर॑स्वतीम् । दे॒व॒ऽयन्त॑: । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒घ्व॒रे । ता॒यमा॑ने । सर॑स्वतीम् । सु॒ऽकृत॑: । ह॒व॒न्ते॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥१.४१॥
स्वर रहित मन्त्र
सरस्वतींदेवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने। सरस्वतीं सुकृतो हवन्तेसरस्वती दाशुषे वार्यं दात् ॥
स्वर रहित पद पाठसरस्वतीम् । देवऽयन्त: । हवन्ते । सरस्वतीम् । अघ्वरे । तायमाने । सरस्वतीम् । सुऽकृत: । हवन्ते । सरस्वती । दाशुषे । वार्यम् । दात् ॥१.४१॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 41
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४१−(सरस्वतीम्) विज्ञानवतीं वेदविद्याम् (देवयन्तः) देव-क्यच्। देवान्श्रेष्ठगुणान् आत्मन इच्छन्तः (हवन्ते) आह्वयन्ति (सरस्वतीम्) (अध्वरे)हिंसारहिते व्यवहारे (तायमाने) विस्तार्यमाणे (सरस्वतीम्) (सुकृतः) पुण्यकर्माणः (हवन्ते) (सरस्वती) (दाशुषे) आत्मानं दत्तवते स्वभक्ताय (वार्यम्) वरणीयंस्वीकरणीयं मोक्षादिपदार्थम् (दात्) अदात्। ददाति ॥
इस भाष्य को एडिट करें