अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 12
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
किंभ्राता॑स॒द्यद॑ना॒थं भवा॑ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गच्छा॑त्। काम॑मूताब॒ह्वे॒तद्र॑पामि त॒न्वा॑ मे त॒न्वं सं पि॑पृग्धि ॥
स्वर सहित पद पाठकिम् । भ्राता॑ । अ॒स॒त् । यत् । अ॒ना॒थम् । भवा॑ति । किम् । ऊं॒ इति॑ । स्वसा॑ । यत् । नि:ऽऋ॑ति: । नि॒ऽगच्छा॑त् । काम॑ऽमूता । ब॒हू । ए॒तत् । र॒पा॒मि॒ । त॒न्वा᳡ । मे॒ । त॒न्व᳡म् । सम् । पि॒पृ॒ग्धि॒ ॥१.१२॥
स्वर रहित मन्त्र
किंभ्रातासद्यदनाथं भवाति किमु स्वसा यन्निरृतिर्निगच्छात्। काममूताबह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥
स्वर रहित पद पाठकिम् । भ्राता । असत् । यत् । अनाथम् । भवाति । किम् । ऊं इति । स्वसा । यत् । नि:ऽऋति: । निऽगच्छात् । कामऽमूता । बहू । एतत् । रपामि । तन्वा । मे । तन्वम् । सम् । पिपृग्धि ॥१.१२॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(किम्) किमर्थम्। निष्फलम् (भ्राता) सहोदरः (असत्) भवेत् (यत्) यदि (अनाथम्) अनाथत्वम्। अनाश्रयत्वम् (भवाति) भवेत्, भगिन्याम् (किम्) निष्फलम् (उ)समुच्चये (स्वसा) भगिनी (यत्) यदि (निर्ऋतिः) कृच्छ्रापत्तिः (निगच्छात्)निपतेत् भ्रातरि (काममूता) मूङ् बन्धने-क्त। कामेन बद्धा पीडिता (बहु)नानाप्रकारेण (एतत्) इदं वचनम् (रपामि) कथयामि (तन्वा) स्वशरीरेण (मे) मम (सम्)संगत्य (पिपृग्धि) पृची सम्पर्के। छान्दसःश्लुः, अभ्यासस्य इत्वम्। संपर्चय ॥
इस भाष्य को एडिट करें