Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 22
    सूक्त - यम, मन्त्रोक्त देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    सदा॑सि र॒ण्वोयव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः। विप्र॑स्य वा॒ यच्छ॑शमा॒नउ॒क्थ्यो॒ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥

    स्वर सहित पद पाठ

    सदा॑ । अ॒सि॒ । र॒ण्व: । यव॑साऽइव । पुष्य॑ते । होत्रा॑भि: । अ॒ग्ने॒ । मनु॑ष: । सु॒ऽअ॒ध्व॒र: । विप्र॑स्य । वा॒ । यत् । श॒श॒मा॒न: । उ॒क्थ्य᳡: । वाज॑म् । स॒स॒ऽवान् । उ॒प॒ऽयासि॑ । भूरि॑ऽभि: ॥१.२२॥


    स्वर रहित मन्त्र

    सदासि रण्वोयवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः। विप्रस्य वा यच्छशमानउक्थ्यो वाजं ससवाँ उपयासि भूरिभिः ॥

    स्वर रहित पद पाठ

    सदा । असि । रण्व: । यवसाऽइव । पुष्यते । होत्राभि: । अग्ने । मनुष: । सुऽअध्वर: । विप्रस्य । वा । यत् । शशमान: । उक्थ्य: । वाजम् । ससऽवान् । उपऽयासि । भूरिऽभि: ॥१.२२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 22

    टिप्पणीः - २२−(सदा) सर्वदा (असि) भवसि (रण्वः) कॄगॄशॄदॄभ्यो वः। उ १।१५५। रमुक्रीडायाम्-व, मस्य णः। रमणीयः। सुखप्रदः यद्वा, रण शब्दे गतौ च-व प्रत्ययः।स्तुत्यः। प्राप्तव्यः (यवसा) विभक्तेराकारः। यवसम्। घासः। तृणम् (इव) यथा (पुष्यते) पुष पुष्टौ-शतृ। पोषणं कुर्वते पुरुषाय (होत्राभिः) वाग्भिः-निघ० १।११ (अग्ने) हे विद्वन् (मनुषः) जनेरुसिः उ० २।११५। मन ज्ञाने-उसि। ज्ञानस्य (स्वध्वरः) शोभनयागः (विप्रस्य) मेधाविनः (वा) च (यत्) यतः (शशमानः) अ० २।३४।२।शश प्लुतगतौ−चानश्। उत्प्लुत्य गमनशीलः। शीघ्रगामी (उक्थ्यः) स्तुत्यः (वाजम्)विज्ञानम् (ससवान्) षण संभक्तौ-क्वसु। संभजमानः। सेवमानः (उपयासि) आगच्छसि (भूरिभिः)बहुपुरुषैः ॥

    इस भाष्य को एडिट करें
    Top