Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 25
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    श्रु॒धी नो॑अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम्। आ नो॑ वह॒ रोद॑सीदे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥

    स्वर सहित पद पाठ

    श्रु॒धि । न॒: । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् । आ । न॒: । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ । दे॒वऽपु॑त्रे । माकि॑: । दे॒वाना॑म् । अप॑ । भू॒: । इ॒ह । स्या॒: ॥१.२५॥


    स्वर रहित मन्त्र

    श्रुधी नोअग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम्। आ नो वह रोदसीदेवपुत्रे माकिर्देवानामप भूरिह स्याः ॥

    स्वर रहित पद पाठ

    श्रुधि । न: । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् । आ । न: । वह । रोदसी इति । देवपुत्रे इति । देवऽपुत्रे । माकि: । देवानाम् । अप । भू: । इह । स्या: ॥१.२५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 25

    टिप्पणीः - २५−(श्रुधि) शृणु (नः)अस्माकं वचः (अग्ने) हे विद्वन् (सदने) समाजे (सधस्थे) सहस्थितियोग्ये (रथम्) (अमृतस्य) अमरणस्य। (द्रवित्नुम्) स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्। उ० ३।२९।द्रु गतौ-इत्नुच्, अण्यन्तादपि। शीघ्रगामिनम् (आवह) आनय (नः) अस्मान् (रोदसी)भूमिसूर्यतुल्योपकारशीले (देवपुत्रे) देवा विद्वांसः पुत्रा ययोस्ते द्वेप्रजे।मातापितरौ (माकिः) न कदापि (देवानाम्) विदुषां मध्ये (अप भूः) अपगतो भव (इह)अस्मासु (स्याः) भवेः ॥

    इस भाष्य को एडिट करें
    Top