अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 51
बर्हि॑षदः पितरऊ॒त्यर्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म्। त आ ग॒ताव॑सा॒ शन्त॑मे॒नाधा॑ नः॒शं योर॑र॒पो द॑धात ॥
स्वर सहित पद पाठबर्हि॑ऽसद: । पि॒त॒र॒: । ऊ॒ती । अ॒र्वाक् । इ॒मा । व॒: । ह॒व्या । च॒कृ॒म॒ । जु॒षध्व॑म् । ते । आ । ग॒त॒ । अव॑सा । शम्ऽत॑मेन । अध॑ । न॒: । शम् । यो: । अ॒र॒प । द॒धा॒त॒ ॥१.५१॥
स्वर रहित मन्त्र
बर्हिषदः पितरऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम्। त आ गतावसा शन्तमेनाधा नःशं योररपो दधात ॥
स्वर रहित पद पाठबर्हिऽसद: । पितर: । ऊती । अर्वाक् । इमा । व: । हव्या । चकृम । जुषध्वम् । ते । आ । गत । अवसा । शम्ऽतमेन । अध । न: । शम् । यो: । अरप । दधात ॥१.५१॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 51
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५१−(बर्हिषदः) उत्तमपदे सदनशीलाः (पितरः) हे पालकाः शूरवीराः (ऊती) ऊत्या। रक्षया (अर्वाक्) अभिमुखं भूत्वा (इमा)पुरोगतानि (वः) युष्मभ्यम् (हव्या) ग्राह्याणि भोजनादिवस्तूनि (चकृम) वयंसंस्कृतवन्तः (ते) तादृशा) यूयम् (आगत) आगच्छत (अवसा) रक्षणेन (शन्तमेन)अतिशयसुखदायकेन (अध) पुनः (नः) अस्मभ्यम् (शम् योः) शमनं च रोगाणां यावनं चभयानाम्-निरु० ४।२१। सुखं च अभयं च (अरपः) निर्दोषाचरणम् (दधात) धारयेत ॥
इस भाष्य को एडिट करें