अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 48
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
स्वा॒दुष्किला॒यंमधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम्। उ॒तो न्वस्यप॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥
स्वर सहित पद पाठस्वा॒दु: । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्र: । किल॑ । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् । उ॒तो इति॑ । नु । अ॒स्य॒ । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । क: । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥१.४८॥
स्वर रहित मन्त्र
स्वादुष्किलायंमधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम्। उतो न्वस्यपपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥
स्वर रहित पद पाठस्वादु: । किल । अयम् । मधुऽमान् । उत । अयम् । तीव्र: । किल । अयम् । रसऽवान् । उत । अयम् । उतो इति । नु । अस्य । पपिऽवांसम् । इन्द्रम् । न । क: । चन । सहते । आऽहवेषु ॥१.४८॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 48
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४८−(स्वादुः) आस्वादनीयः (किल) निश्चयेन (अयम्) सोमः। विद्यारसः।सोमलतादिमहौषधिरसः (मधुमान्) मधुविद्योपेतः। मधुरगुणः (उत) अपि (अयम्) (तीव्रः)तेजस्वी (किल) (अयम्) (रसवान्) बहुवीर्यवान् (उत) (अयम्) (उतो) अपि च (नु)क्षिप्रम् (अस्य) रसस्य (पपिवांसम्) पीतवन्तम् (इन्द्रम्) परमैश्वर्यवन्तंशूरपुरुषम् (न) निषेधे (कश्चन) कोऽपि (सहते) पराभवति (आहवेषु) संग्रामेषु ॥
इस भाष्य को एडिट करें