Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 55
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अपे॑त॒ वीत॒ विच॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन्।अहो॑भिर॒द्भिर॒क्तुभि॒र्व्यक्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥

    स्वर सहित पद पाठ

    अप॑ । इ॒त॒ । वि । इ॒त॒ । तवि । च॒ । स॒र्प॒त॒ । अत॑: । अ॒स्मै । ए॒तम् । पि॒तर॑: । लो॒कम् । अ॒क्र॒न् । अह॑:ऽभि: । अ॒त्ऽभि: । अ॒क्तुऽभि॑: । विऽअ॑क्तम् । य॒म: । द॒दा॒ति॒ । अ॒व॒ऽसान॑म् । अ॒स्मै॒ ॥१.५५॥


    स्वर रहित मन्त्र

    अपेत वीत विच सर्पतातोऽस्मा एतं पितरो लोकमक्रन्।अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥

    स्वर रहित पद पाठ

    अप । इत । वि । इत । तवि । च । सर्पत । अत: । अस्मै । एतम् । पितर: । लोकम् । अक्रन् । अह:ऽभि: । अत्ऽभि: । अक्तुऽभि: । विऽअक्तम् । यम: । ददाति । अवऽसानम् । अस्मै ॥१.५५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 55

    टिप्पणीः - ५५−(अप इत) दूरे गच्छत (वि इत) विविधं गच्छत (च) (वि सर्पत) विस्तृता भवत (अतः) अस्मात् स्थानात् (अस्मै) जीवाय (एतम्) (पितरः) पालकाः पुरुषाः (लोकम्)दर्शनीयं समाजम् (अकरन्) कृतवन्तः (अहोभिः) दिवसैः (अद्भिः) जलेन। अन्नजलादिना (अक्तुभिः) रात्रिभिः (व्यक्तम्) विशदम् (यमः) न्यायकारी परमात्मा (ददाति) (अवसानम्) विरामम्। स्थिरपदम् (अस्मै) समाजाय ॥

    इस भाष्य को एडिट करें
    Top