Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 34
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति। य॒मस्य॒ योम॒नव॑ते सु॒मन्त्व॑ग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥

    स्वर सहित पद पाठ

    दु॒:ऽमन्तु॑ । अत्र॑ । अ॒मृत॑स्य । नाम॑ । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति । य॒मस्य॑ । य: । म॒नव॑ते । सु॒ऽमन्तु॑ । अग्ने॑ । तम् । ऋ॒ष्व॒ । पा॒हि॒ । अप्र॑ऽयुच्छन् ॥१.३४॥


    स्वर रहित मन्त्र

    दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति। यमस्य योमनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥

    स्वर रहित पद पाठ

    दु:ऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति । यमस्य । य: । मनवते । सुऽमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रऽयुच्छन् ॥१.३४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 34

    टिप्पणीः - ३४−(दुर्मन्तु) कमिमनिजनि०। उ० १।७३। मन पूजायाम्-तु, दुर्माननीयम्। नकदापिसत्करणीयम् (अत्र) संसारे (अमृतस्य) अविनाशिनः परमेश्वरस्य (नाम) नामधेयम् (सलक्ष्मा) समानलक्षणा धर्मव्यवस्था (यत्) यदि (विषुरूपा) नानास्वभावा। चञ्चला।अधार्मिका (भवाति) भवेत् (यमस्य) न्यायकारिणः परमेश्वरस्य, नाम-इत्यस्यानुवृत्तिः (यः) कश्चित् पुरुषः (मनवते) मनुते। जानाति (सुमन्तु)सुमाननीयम् (अग्ने) हे ज्ञानमय परमेश्वर (तम्) पुरुषम् (ऋष्व)सर्वनिघृष्वरिष्व०। उ० १।१५३। महन्नाम-निघ० ३।३। हे महन् परमेश्वर (पाहि) पालय (अप्रयुच्छन्) अप्रमाद्यन् ॥

    इस भाष्य को एडिट करें
    Top