अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 2
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
न ते॒ सखा॑स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भव॑ति। म॒हस्पु॒त्रासो॒ असु॑रस्यवी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥
स्वर सहित पद पाठन । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । य॒त् । विषु॑ऽरूपा । भवा॑ति । म॒ह: । पु॒त्रास॑: । असु॑रस्य । वी॒रा: । दि॒व: । ध॒र्तार॑: । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥१.२॥
स्वर रहित मन्त्र
न ते सखासख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति। महस्पुत्रासो असुरस्यवीरा दिवो धर्तार उर्विया परि ख्यन् ॥
स्वर रहित पद पाठन । ते । सखा । सख्यम् । वष्टि । एतत् । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति । मह: । पुत्रास: । असुरस्य । वीरा: । दिव: । धर्तार: । उर्विया । परि । ख्यन् ॥१.२॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(न) निषेधे (ते) तव (सखा)प्रियः (सख्यम्) प्रीतिम् (वष्टि) कामयते (एतत्) (सलक्ष्मा) समानलक्षणा।धर्मशीला (यत्) यतः (विषुरूपा) नानास्वभावा। चञ्चला। अधार्मिका (भवाति) भवेत् (महः) महतः (पुत्रासः) पुत्राः (असुरस्य) असुः प्रज्ञानाम-निघ० ३।९, रोमत्वर्थीयः। प्रज्ञावतः पुरुषस्य (वीराः) विक्रान्ताः (दिवः) व्यवहारस्य (धर्तारः) धारकाः (उर्विया) इयाडियाजीकाराणामुपसंख्यानम्। वा० पा० ७।१।३९।उर्वी-डियाच्। उर्व्यां भूमौ (परि ख्यन्) ख्या प्रकथने, प्रसिद्धौ-लुङ्, अडभावः।विख्याता अभूवन् ॥
इस भाष्य को एडिट करें