Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 9
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    न ति॑ष्ठन्ति॒ ननि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये च॑रन्ति। अ॒न्येन॒ मदा॑हनो याहि॒तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥

    स्वर सहित पद पाठ

    न । ति॒ष्ठ॒न्ति॒ । न । नि । मि॒ष॒न्ति॒ । ए॒ते । दे॒वाना॑म् । स्पश॑: । इ॒ह । ये । चर॑न्ति । अ॒न्येन॑ । आ॒ह॒न॒: । या॒हि॒ । तूय॑म् । तेन॑ । वि । वृ॒ह॒ । रथ्या॑ऽइव । च॒क्रा ॥१.९॥


    स्वर रहित मन्त्र

    न तिष्ठन्ति ननि मिषन्त्येते देवानां स्पश इह ये चरन्ति। अन्येन मदाहनो याहितूयं तेन वि वृह रथ्येव चक्रा ॥

    स्वर रहित पद पाठ

    न । तिष्ठन्ति । न । नि । मिषन्ति । एते । देवानाम् । स्पश: । इह । ये । चरन्ति । अन्येन । आहन: । याहि । तूयम् । तेन । वि । वृह । रथ्याऽइव । चक्रा ॥१.९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 9

    टिप्पणीः - ९−(न) निषेधे (तिष्ठन्ति) गत्यानिवर्तन्ते (न) (नि मिषन्ति) निमेषं चक्षुर्मुद्रणं कुर्वन्ति (एते) (देवानाम्)विदुषाम् (स्पशः) स्पश ग्रन्थे बाधने च-क्विप्। प्रबन्धाः। नियमाः (इह) संसारे (ये) (चरन्ति) प्रवर्तन्ते (अन्येन) इतरेण सह (मत्) मत्तः) (आहनः) म० ७। हेआहननशीले (याहि) गच्छ (तूयम्) क्षिप्रनाम-निघ० २।१५। शीघ्रम् (तेन) पुरुषेण सह (वि वृह) संश्लेषं कुरु (रथ्या) म० ८। रथवाहके (इव) (चक्रा) चक्रद्वे ॥

    इस भाष्य को एडिट करें
    Top