Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 8
    सूक्त - यम, मन्त्रोक्त देवता - आर्षी पङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    य॒मस्य॑ माय॒म्यं काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य। जा॒येव॒ पत्ये॑ त॒न्वंरिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥

    स्वर सहित पद पाठ

    य॒मस्य॑ । मा॒ । य॒म्य᳡म् । काम॑: । आ । अ॒ग॒न् । स॒मा॒ने । योनौ॑ । स॒ह॒ऽशेय्या॑य । जा॒याऽइ॑व । पत्ये॑ । त॒न्व᳡म् । रि॒रि॒च्या॒म् । वि । चि॒त् । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥१.८॥


    स्वर रहित मन्त्र

    यमस्य मायम्यं काम आगन्त्समाने योनौ सहशेय्याय। जायेव पत्ये तन्वंरिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥

    स्वर रहित पद पाठ

    यमस्य । मा । यम्यम् । काम: । आ । अगन् । समाने । योनौ । सहऽशेय्याय । जायाऽइव । पत्ये । तन्वम् । रिरिच्याम् । वि । चित् । वृहेव । रथ्याऽइव । चक्रा ॥१.८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 8

    टिप्पणीः - ८−(यमस्य) यम परिवेषणे-अच्। एकगर्भजायमानस्य यमजस्य भ्रातुः (मा) माम् (यम्यम्)यम ङीष् गौरादित्वात्, यणादेशः। यमीम्। एकगर्भजायमानां यमजां भगिनीम् (कामः)कामना (आ अगन्) आगमत् (समाने) एकस्मिन्नेव (योनौ) गृहे (सहशेय्याय) अचो यत्। पा०३।१।९७। शीङ् शयने-यत्। शेयं शयनं स्वार्थेयत्। सहशयनाय (जाया) पत्नी (इव) यथा (पत्ये) स्वभर्त्रे (तन्वम्) तनूम्। स्वशरीरम् (रिरिच्याम्) रिचिर् विरेचने।विस्तारयेयम् (चित्) अपि च (वि वृहेव) परस्परसंश्लेषो विवर्हा। आवां संश्लेषंकरवाव (रथ्या) तद्वहति रथयुगप्रासङ्गम्। पा० ४।४।७६। इति यत्। विभक्तेः।पूर्वसवर्णदीर्घः। रथ्ये। रथवाहके (इव) यथा (चक्रा) चक्रद्वे ॥

    इस भाष्य को एडिट करें
    Top