अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 25
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - त्र्यवसाना सप्तपदा शक्वरी
सूक्तम् - शत्रुनिवारण सूक्त
ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑। ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः। ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठई॒शाम् । व॒: । म॒रुत॑: । दे॒व: । आ॒दि॒त्य: । ब्रह्म॑ण: । पति॑: । ई॒शाम् । व॒: । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । धा॒ता । मि॒त्र: । प्र॒जाऽप॑ति: । ई॒शाम् । व॒: । ऋष॑य: । च॒क्रु॒: । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.२५॥
स्वर रहित मन्त्र
ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः। ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः। ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठईशाम् । व: । मरुत: । देव: । आदित्य: । ब्रह्मण: । पति: । ईशाम् । व: । इन्द्र: । च । अग्नि: । च । धाता । मित्र: । प्रजाऽपति: । ईशाम् । व: । ऋषय: । चक्रु: । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 25
विषय - देवानुग्रह से शत्रुओं पर शासन
पदार्थ -
१. हे (अर्बुदे) = सेनापते! (अमिन्त्रेषु) = शत्रुओं पर (तव रदिते) = तेरा आक्रमण होनेपर, उस आक्रमण को (समीक्षयन्) = [व्यत्येन एकवचनम्] देखते हुए (मरुतः) = वायुओं के समान वेगवान् भट, (देवः आदित्य:) = विजिगीषु, सूर्यसम तेजस्वी पुरुष तथा (ब्रह्मणस्पति:) = ज्ञानी पुरुष (व:) = [अमिन्नेषु] तुम्हारे शत्रुओं पर (ईशाम् चक्रुः) = शासन करें। (इन्द्रः च अग्निः च) = शत्रविद्रावक राजा, अग्निसम तेजस्वी सैनिक, (धाता मित्रा प्रजापति:) = धारण करनेवाला, प्रमीति [मृत्यु] से बचानेवाला, प्रजा का रक्षक (देव वः ईशाम्) [चाः] = शत्रुओं पर तुम्हारे शासन को स्थापित करे तथा (ऋषय:) = [ऋष् to kill] शत्रुसंहारक तत्त्वद्रष्टा लोग (वः ईशाम्) [चकुः] = शत्रुओं पर तुम्हारा शासन स्थापित करें।
भावार्थ -
जब हमारे सेनापति द्वारा शत्रुओं पर आक्रमण किया जाता है तब सब देव हमारी सहायता करते हैं और शत्रुओं पर हमारा शासन स्थापित होता है। [God helps those who help themselves]
इस भाष्य को एडिट करें