अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 11
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
अपक्री॒ताः सही॑यसीर्वी॒रुधो॒ या अ॒भिष्टु॑ताः। त्राय॑न्ताम॒स्मिन्ग्रामे॒ गामश्वं॒ पुरु॑षं प॒शुम् ॥
स्वर सहित पद पाठअ॒प॒ऽक्री॒ता: । सही॑यसी: । वी॒रुध॑: । या: । अ॒भिऽस्तु॑ता: । त्राय॑न्ताम् । अ॒स्मिन् । ग्रामे॑ । गाम् । अश्व॑म् । पुरु॑षम् । प॒शुम् ॥७.११॥
स्वर रहित मन्त्र
अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः। त्रायन्तामस्मिन्ग्रामे गामश्वं पुरुषं पशुम् ॥
स्वर रहित पद पाठअपऽक्रीता: । सहीयसी: । वीरुध: । या: । अभिऽस्तुता: । त्रायन्ताम् । अस्मिन् । ग्रामे । गाम् । अश्वम् । पुरुषम् । पशुम् ॥७.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 11
विषय - सहीयसी: [अपक्रीताः] बीरुधः
पदार्थ -
(अपक्रीताः) = दूर देश से द्रव्य-विनिमय द्वारा प्राप्त की गई (सहीयसी:) = रोगों का मर्षण करनेवाली (वीरुधः) = लताएँ (याः अभिष्टुता:) = जिनकी सब प्रकार से प्रशंसा सुनाई देती है, वे (अस्मिन् ग्रामे) = इस ग्राम में (गां अश्वं पुरुषं पशुम्) = गौ, घोड़े, पुरुष व पशु को (त्रायन्ताम्) = रोग से बचाएँ।
भावार्थ -
कई वीरुध दूर देश से द्रव्य द्वारा प्राप्त की जाती हैं। ये रोगों को कुचलनेवाली औषध हमारे गौ, घोड़े, मनुष्य व पशुओं का रोगों से रक्षण करें।
इस भाष्य को एडिट करें