अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 6
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत्प॒दम्। तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त्प्रा॒णत्प्रति॑ष्ठितम् ॥
स्वर सहित पद पाठआ॒वि: । सत् । निऽहि॑तम् । गुहा॑ । जर॑त् । नाम॑ । म॒हत् । प॒दम् । तत्र॑ । इ॒दम् । सर्व॑म् । आर्पि॑तम् । एज॑त् । प्रा॒णत् । प्रति॑ऽस्थितम् ॥८.६॥
स्वर रहित मन्त्र
आविः सन्निहितं गुहा जरन्नाम महत्पदम्। तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥
स्वर रहित पद पाठआवि: । सत् । निऽहितम् । गुहा । जरत् । नाम । महत् । पदम् । तत्र । इदम् । सर्वम् । आर्पितम् । एजत् । प्राणत् । प्रतिऽस्थितम् ॥८.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 6
विषय - ज्येष्ठ ब्रह्म का वर्णन।
भावार्थ -
(गुहा) गुहा में, ब्रह्माण्ड में और इस शरीर में (जरन्=चरन्) व्यापक (महत्) वह महान् (पदम्) ज्ञातव्य, वैद्य (नाम) पदार्थ है जो (आविः) साक्षात् (सन्निहितम्) अति समीप में भीतर स्थित है। (तत्र) उस आत्मा में (इदं सर्वम्) यह सब (एजत् प्राणत्) गतिशील प्राण लेने वाला देह, इन्द्रिय, चित्त आदि और ब्रह्माण्ड में समस्त सूर्य चन्द्र नक्षत्र वायु आदि सब (प्रतिष्ठितम्) आश्रित है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कुत्स ऋषिः। आत्मा देवता। १ उपरिष्टाद् बृहती, २ बृहतीगर्भा अनुष्टुप, ५ भुरिग् अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब् गर्भा बृहती, ११ जगती, १२ पुरोबृहती त्रिष्टुब् गर्भा आर्षी पंक्तिः, १५ भुरिग् बृहती, २१, २३, २५, २९, ६, १४, १९, ३१-३३, ३७, ३८, ४१, ४३ अनुष्टुभः, २२ पुरोष्णिक्, २६ द्व्युष्णिग्गर्भा अनुष्टुब्, ५७ भुरिग् बृहती, ३० भुरिक्, ३९ बृहतीगर्भा त्रिष्टुप, ४२ विराड् गायत्री, ३, ४, ८, ९, १३, १६, १८, २०, २४, २८, २९, ३४, ३५, ३६, ४०, ४४ त्रिष्टुभः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें