Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 2
दे॒वाय॒ज्ञमृ॒तवः॑ कल्पयन्ति ह॒विः पु॑रो॒डाशं॑ स्रु॒चो य॑ज्ञायु॒धानि॑।तेभि॒र्याहि॑ प॒थिभि॑र्देव॒यानै॒र्यैरी॑जा॒नाः स्व॒र्गं य॑न्ति लो॒कम् ॥
स्वर सहित पद पाठदे॒वा: । य॒ज्ञम् । ऋ॒तव॑: । क॒ल्प॒य॒न्ति॒ । ह॒वि: । पु॒रो॒डाश॑म् । स्रु॒च: । य॒ज्ञ॒ऽआ॒यु॒धानि॑ । तेभि॑: । या॒हि॒ । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: । यै: । ई॒जा॒ना: । स्व॒:ऽगम् । यन्ति॑ । लो॒कम् ॥४.२॥
स्वर रहित मन्त्र
देवायज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि।तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥
स्वर रहित पद पाठदेवा: । यज्ञम् । ऋतव: । कल्पयन्ति । हवि: । पुरोडाशम् । स्रुच: । यज्ञऽआयुधानि । तेभि: । याहि । पथिऽभि: । देवऽयानै: । यै: । ईजाना: । स्व:ऽगम् । यन्ति । लोकम् ॥४.२॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 2
विषय - देवयान और पितृयाण।
भावार्थ -
(देवाः) देव, विद्वान् पुरुष और राजागण भी और (ऋतवः) ऋतुएं, प्राण और होतागण, दिशाएं आदि (यज्ञम्) यज्ञ (कल्पयन्ति) करते हैं। उसमें (हविः) हवि=अन्न (पुरोडाशम्) ‘पुरोडाश’ है और (स्रुचः) आहुति देने के चमस, स्रुवे और प्राण और ये लोक (यज्ञायुधानि) यज्ञ करने के आयुध हथियार या उपकरण के समान हैं। (तेभिः) उनसे (देवयानैः) देवों के गमन करने योग्य (पथिभिः) मार्गों से (ईजानाः) यज्ञद्वारा देव उपासना करने वाले लोग (स्वर्गं लोकम्) स्वर्ग, सुखमय लोक को (यन्ति) प्राप्त होते हैं।
टिप्पणी -
ऋतवः होत्राशंसिनः। कौ० २९॥८॥ ऋतवो वा होत्राः। गो० ३। ६। ६॥ सदस्या ऋतवोऽभवन्। तै० ३। १२ ॥ दिशः। गो० उ० ६। १२॥ पञ्च हि ऋतवः। तां० १२। ४। ८॥ त्रयो वा। श० ३। ०। ७।१७॥ याः षड् विभूतयः ऋतवस्ते। जै० ३ १।२१। १॥ यानि भूतानि ऋतवस्ते । श० ६ । १। ३ । ८॥ पुरोडाशः। सः कूर्मरूपेणाच्छन्नः पुरोडाशः। स वा एभ्यः तत्पुरोदशयत्। श० १ । ६। २ । ५॥ पुरो वा एतान् देवाः अक्रत। ऐ० २। २३ ॥ आत्मा वै यजमानस्य पुरोडाशाः। कौ० १३ । ४ । ६ ॥ मस्तिष्को वै पुरोडाशः। है० ३। २। २। ७॥ पुरोडाश शब्द से ब्रह्माण्ड, आत्मा मस्तिष्क और हवि आदि लिये जाते हैं।
स्रुचः—इमे वै लोकाः स्रुचः। तै० ३। ३। १। २॥ प्राणो वै स्रुचः। है० ३। २। १। ५॥ आधिदैविक, आध्यात्मिक आदि भेद से इनकी योजना कर लेनी चाहिये।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें